पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Anguli

अङ्गुलि



Source: https://kinzkanaan.com/pages/finger-symbolism

लिङ्गपुराणे १.८५.११४ एवं शिवपुराणे ७.२.१४.३९ कथनमस्ति - अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥ मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ कनिष्ठा रक्षणीया सा जपकर्मणिशोभने।। अस्य कथनस्य व्याख्यानं अधोलिखितानां कथनानां आधारे कर्तुं शक्यन्ते –

प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे। स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं सावित्रं स वै वर्षिष्ठः पुरोडाशो भवति। तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम्पौष्णम् – माश ११.५.२.१

अथ सौम्यश्चरुर्भवति । रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति तत्पुरस्तान्मिथुनं प्रजननम् । अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति । अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनं प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृज - माश २.५.१.१०

स्वाहा यज्ञ मनसा स्वाहा द्यावापृथिवीभ्याँ कनिष्ठिके। स्वाहा दिवः अनामिके। स्वाहा पृथिव्याः मध्यमे। स्वाहोरोरन्तरिक्षात् प्रादेशिन्यौ। स्वाहा यज्ञ वातादारभ इति अङ्गुष्ठाभ्या मुष्टी करोति वाच च यच्छति - आपस्तम्बीय श्रौतप्रयोगः(प्रथमो खण्डः), अग्निष्टोमप्रयोगे दशमो अध्यायः।

पुराणेषु कनिष्ठिकाङ्गुल्याः संदर्भः जपकर्मणि अस्ति, शतपथब्राह्मणे पूषादेवेन सह। पूषाशब्दोपरि टिप्पणी एवं पिष्टशब्दोपरि टिप्पणी पठनीया अस्ति। पूष्णः विशेषणं अजाश्वः अस्ति, अर्थात् पूष्णः वाहनः अजा पशुः अस्ति।  यत् यत्किंचित् अनिरुक्तमस्ति, यथा सूर्योदयात् पूर्वावस्था, तत् अजा अस्ति। चेतनायाः संदर्भे, यः अचेतनमनः अस्ति, तत् पूष्णः वाहनः अस्ति, तस्योपरि पूष्णः आधिपत्यमस्ति। अपि च, पुराणेषु पूषा दन्तरहितः अस्ति, तस्य हविः पिष्टः भवति। यथा पिष्टशब्दस्य टिप्पण्यां कथितमस्ति, अस्मिन् ब्रह्माण्डे यः जीवः अस्ति, तत् एकलचेतनायाः, ईश्वरस्य पिष्टरूपः अस्ति। अयं जीवचेतना अतिमन्दगत्यात्मिका अस्ति। अयं प्रतीयते यत् जपक्रियायाः उद्देश्यं मन्दगत्याः रूपान्तरणं तीव्रगत्यां करणे अस्ति। ऋग्वेदः सूक्तं १०.१०३ अस्ति - आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । इति। अस्य सूक्तस्य विनियोगं अग्निप्रणयनकाले ब्रह्मासंज्ञकेन ऋत्विजेन जपः अस्ति। अत्र आशुः शब्दः तीव्रगत्याः सूचकः अस्ति। या मन्दगतिः अस्ति, तत् शत्रुभ्यः रक्षणे समर्था नास्ति।

 

आपस्तम्बीयश्रौतप्रयोगे कनिष्ठिकायाः अङ्गुल्याः संदर्भे द्यावापृथिव्याः अपि उल्लेखः अस्ति। अचेतनमनसः ये स्तराः सन्ति, तेषां अस्थायी उत्थापनं संभवं अस्ति। कर्मकाण्डे अस्य संज्ञा प्रवर्ग्यजननं अस्ति। ऊर्जायाः उत्थानं – पतनं द्यौ – भूमिसदृशं सतत् रूपेण प्रचलति, किन्तु ग्रन्थेषु कथनमस्ति यत् अस्मिन् प्रक्रियायां किंचित् रूपेण सूर्यस्य निर्माणमपि भवितुं शक्यते। श्रीमती विमला मुसलगाँवकरः स्वपुस्तके कथयति यत् संगीते यः तालः अस्ति, यस्य जननं अवनद्धवाद्येभिः भवति, तस्य सम्बन्धः अचेतनचेतनायाः उत्थापनेन एवास्ति। जपस्य संदर्भे तालशब्दः मन्द्र-ताररूपेण प्रकटयति, अयं अनुमानः।   

अनामिका

लिङ्ग एवं शिवपुराणानुसारेण अनामिकायाः सम्बन्धः शान्तिकर्मेभ्यः अस्ति।  भविष्यपुराणानुसारेण अनामिकायाः सम्बन्धं सूर्येण सह अस्ति। पुराणानां कथनेषु यः विरोधाभासः अस्ति, तस्य शमनाय शान्तिशब्दोपरि संदर्भाः पठनीयाः सन्ति। काठकसंहिता ६.३  अनुसारेण यदा अग्निहोत्रादिषु सूर्योदयः भवति एवं तस्य दाहस्य शमनाय पयःआदीनां प्रतिषेकं न दीयन्ते, तदा तत् स्थितिः ब्रह्मवर्चसस्य, सूर्यस्य उत्पादकः भवति। यदि पयःआदीनां प्रतिषेकं कुर्वन्ति, तदा तत् स्थितिः पशुकामस्य भवति। व्यवहारे, यदि जठराग्न्याः शमनं न भवेत्, तत् सूर्यस्य रूपं धारयितुं शक्यते। पुराणेषु एवं वैदिकग्रन्थेषु सार्वत्रिकरूपेण रौद्रस्य शमनं अद्भिः कर्तुं निर्देशाः सन्ति।  शतपथब्राह्मणानुसारेण अनामिकायाः तादात्म्यं सरस्वत्याः सह अस्ति। अस्य व्याख्या अपेक्षिता अस्ति। सरस्वत्याः सम्बन्धं ज्ञानेन सह अस्ति। रौद्रस्य शमनाय ज्ञान अपि आवश्यकं अस्ति। दीक्षाकृत्यान्तर्गत मुष्टिकरणे अनामिकाअङ्गुल्यै स्वाहा दिवः इति कथनमस्ति। मध्यमाङ्गुल्यै स्वाहा पृथिव्यै इति कथनमस्ति।

प्रादेशिनी

प्रादेशिन्या अङ्गुल्याः संदर्भे कथनमस्ति – स्वाहा उरोरन्तरिक्षात्। अन्तरिक्षशब्दोपरि टिप्पणी पठनीया अस्ति। तत्र कथनमस्ति - अन्तरिक्ष तम से युक्त है। बृहस्पति उसमें प्रकाश करके गौ प्राप्त कर लेते हैं(अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् । -ऋग्वेद १०.६८., इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम्- १०.१२४.। यह महत्त्वपूर्ण है कि सामान्य रूप में अन्धकार युक्त अन्तरिक्ष की पराकाष्ठा उसका ज्योतिर्मय होना है, उसमें सूर्य, चन्द्रमा, नक्षत्र, ऋतु, संवत्सर आदि का प्रकट होना है(योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥ - अथर्ववेद १५.१७.)। यह ज्योतियां अन्तरिक्ष में प्रकट होकर शरीर के मूर्द्धा रूपी आकाश में प्रतिष्ठित होती हैं।

पुराणेषु कथनमस्ति यत् प्रादेशिनी अङ्गुलिः शत्रुनाशिका अस्ति। शत्रुशब्दस्य उपयुक्त निरुक्तिः का अस्ति, न ज्ञातमस्ति। अयं प्रतीयते यत् शत्रोः अस्तित्वं तदैव अस्ति यदा क्षत्रबलं दुर्बलः अस्ति। अतएव, यदि अन्तरिक्षः उरु भवति, प्रकाशयुक्तः भवति, तदा क्षत्रबलस्य पुष्टिः भविष्यति, शत्रोः नाशं भविष्यति। अयं प्रतीयते यत् आधुनिक चिकित्साविज्ञानानुसारेण क्षत्रबलः देहरक्षिका कोशिका, स्टैमसैल इत्यादि रूपेण अस्ति।

अङ्गुष्ठः

 

उपनिषदेषु सार्वत्रिकरूपेण कथनमस्ति यत् हृद्देशे अङ्गुष्ठपुरुषः विराजते, यः ज्योतिरूपः अस्ति। अपि च, भ्रूमध्यदेशे यः ज्योतिः दृश्यते, तदपि अङ्गुष्ठपुरुषस्य संज्ञा धारयति। अयं प्रतीयते यत् यत्किंचित् हृद्देशे वसति, तत् अङ्गुष्ठः अस्ति। यत्किंचित् हृद्देशतः बहिः स्थितेषु, पुरीतत् नाडीषु वसति, तत् अङ्गुलयः अस्ति। यत्किंचित् हृद्देशे अस्ति, तत् प्रेम्णः सृष्टिं करिष्यति। यत्किंचित् हृद्देशतः बहिः अस्ति, तत् क्षत्रबलस्य सृष्टिं करिष्यति।

 

टिप्पणी : अङ्गुलि शब्द के लिए अङ्कुर(ज्योति पुञ्ज का अङ्कुरण) शब्द पर विचार करना चाहिए। स्वयं वेदों में अङ्गुलि शब्द कम स्थानों पर आया है। लेकिन वैदिक निघण्टु में अग्रुवः आदि २२ नाम दिए गए हैं जो वेद में अङ्गुलि के वाचक हैं। शतपथ ब्राह्मण १.१.२.१६ में पांच अङ्गुलियों को पंक्ति छन्द का प्रतीक कहा गया है और पंक्ति छन्द पांच दिशाओं में साधना से सम्बन्धित है। इसके अतिरिक्त दस हाथों व १० पैरों की अङ्गुलियों को मिलाकर पुरुष में प्राणों की गणना १९, २१, २३, २५, २७, २९, ३१, ३३ रूपों में की गई है(शतपथ ब्राह्मण ८.४.३.१०)।

     पुराणों में अङ्गुलियों से सम्बन्धित वर्णन का आधार यह है कि वायु तत्त्व पर जय के पश्चात् अङ्गुलियों में प्राण, अपान, उदान, व्यान व समान वायुओं का विकास हो जाता है(द्र. शतपथ ब्राह्मण ८.१.३.८)। पुराणों में मङ्कणक ऋषि के हस्त से शाक रस स्रवित होने तथा तत्पश्चात् शिव द्वारा अङ्गुष्ठ व अङ्गुलि के ताडन से भस्म उत्पन्न करने की सार्वत्रिक कथा से यह संकेत मिलता है कि अङ्गुलियों में शक्ति का विकास होने से पूर्व हस्त से शाक रस/शक्ति का स्रवण होता है जो मदकारी है। इस मादक अवस्था को नियन्त्रित करने के लिए शक्ति का अङ्गुलियों में स्रवण कराना होता है(शतपथ ब्राह्मण ७.५.२.४४), उसे देवों को अर्पित करना होता है। अथर्ववेद ४.१४.७ तथा पैप्पलाद संहिता १.५२.९६ के अनुसार अज अवस्था वह होती है जहां अङ्कुरण न हो। ओदन उदान प्राण का रूप है। शतपथ ब्राह्मण ११.५.२.१ में चातुर्मास यज्ञ के संदर्भ में दक्षिण बाहु की कल्पना चातुर्मास यज्ञ के चार खण्डों वैश्वदेव, वरुणप्रघास, साकमेध व शुनासीर में से प्रथम वैश्वदेव के रूप में की गई है। इस यज्ञ से जो प्राप्ति होती है, उसे दक्षिण बाहु की पांच अङ्गुलियों में प्राप्त शक्ति/हवि के रूप में दिखाया गया है। अङ्गुष्ठ आग्नेय, तर्जनी सौम्य, मध्यमा सावित्र, अनामिका सारस्वत व कनिष्ठिका पूषा देवता सम्बन्धी हवि बनती है(हवि अर्थात् ऐसा अन्न, ऐसी ज्योति या शक्ति जिसे देवताओं को अर्पित किया जा सकता है)। इसके पश्चात् यज्ञ के दूसरे भाग वरुण प्रघास(शत्रु विनाश से सम्बन्धित) को दक्षिण ऊरु कहा गया है जिससे हवि की प्राप्ति दक्षिण पाद की पांच अङ्गुलियों के रूप में होती है। यज्ञ के तीसरे भाग साकमेध (मरुतों व इन्द्र द्वारा मिल कर वृत्र का वध) की कल्पना उत्तर ऊरु के रूप में की गई है जिससे उत्तर पाद की पांच अङ्गुलियों का विकास हवि के रूप में होता है। यज्ञ के चतुर्थ भाग शुनासीर(श्री और सीर/रस का परस्पर योग) की कल्पना उत्तर बाहु के रूप में की गई है जिससे हवि की प्राप्ति उत्तर बाहु की पांच अङ्गुलियों के रूप में होती है। यह उल्लेखनीय है कि पुराणों में अङ्गुलियों का विशद वर्णन होने पर भी अङ्गुलियों में इतना स्पष्ट विभाजन दिखाई नहीं देता जितना चातुर्मास के संदर्भ में शतपथ ब्राह्मण में किया गया है। केवल स्कन्द पुराण के काशी खण्ड में कमला देवी द्वारा हस्ताङ्गुलियों व उग्रा देवी द्वारा पादाङ्गुलियों की रक्षा के उल्लेख से चातुर्मास सम्बन्धी उपरोक्त वर्णन की पुष्टि होती है।

     स्कन्द पुराण अवन्तिका खण्ड में विष्णु की बाहु से उत्पन्न रुधिर का अङ्गुलियों द्वारा मन्थन के संदर्भ में अथर्वशिरोपनिषद ६.१४, वटुकोपनिषद ३१७.२० तथा गायत्री रहस्योपनिषद ४०५.५ में कहा गया है कि उच्छ्वास से तम होता है, तम से आपः, आपः का अङ्गुलियों द्वारा मन्थन करने पर शिशिर, शिशिर का मन्थन करने पर फेन, फेन से अण्ड, अण्ड से ब्रह्मा, ब्रह्मा से वायु, वायु से ओङ्कार, ओङ्कार से सावित्री, सावित्री से गायत्री और गायत्री से लोक। ऐसा प्रतीत होता है कि पुराण की कथा में जिस नर की उत्पत्ति कही गई है, वह नॄ नृत्य का, आनन्द का रूप है। तैत्तिरीय ब्राह्मण २.६.५.४ के अनुसार अङ्गुलियां मोद-प्रमोद हैं। यह मोद-प्रमोद प्रत्येक अङ्गुलि में अलग-अलग प्रकार का होता है(तैत्तिरीय संहिता ६.१.९.५)। दर्श-पौर्णमास यज्ञ के संदर्भ में कात्यायन श्रौत सूत्र ३.४.६ तथा आपस्तम्ब श्रौत सूत्र ३.२.३ में उल्लेख आता है कि होता ऋत्विज की अङ्गुलियों पर इडा पात्र रखते हैं। फिर अङ्गुलियों पर आज्य लगाकर उसे ओष्ठ से छूते हैं। इडा भी आनन्द का ही रूप है। यह संभव है कि पुराण कथा में जिस नर की उत्पत्ति कही गई है, वह अङ्गुष्ठ पुरुष का, ओङ्कार का, ओष्ठ का प्रतीक हो।

     अग्नि पुराण में तार्क्ष्य मुष्टि द्वारा विष के निराकरण के संदर्भ में अथर्ववेद २.३३.६ व २०.९६.२२  में अङ्गुलियों से यक्ष्मा को निकालने का, तथा अथर्ववेद ४.६.४, पैप्पलाद संहिता ५.८.३, १६.१४७.८ व १६.१४९.१ में हाथ व पैर की अङ्गुलियों से विष और दौर्भाग्य निकालने का उल्लेख है। ऐसा प्रतीत होता है कि यह विष या यक्ष्मा अङ्गुलियों में शक्ति का सर्पण है। शांखायन ब्राह्मण १६.५ में सर्पि/घृत में आत्मा के दर्शन करके अङ्गुलियों से सर्पि का स्पर्श करने का उल्लेख भी इसी संदर्भ में हो सकता है। शतपथ ब्राह्मण ३.२.१.६ तथा ३.१.३.२५ आदि के अनुसार दीक्षा ग्रहण करते समय यजमान अङ्गुलियों का संकुचन करके जो मुष्टि बनाता है, वह गर्भ की अवस्था है, क्योंकि गर्भ में भी जन्तु की अङ्गुलियां मुष्टि रूप में होती हैं। इस प्रकार वह छन्दों में प्रवेश करता है। शतपथ ब्राह्मण ४.३.३.४ में अङ्गुलियों से वज्र का निर्माण किया गया है। विष्णुधर्मोत्तर पुराण आदि में अभिनय कर्म और मुद्राओं के वर्णन में मुष्टि निर्माण के संदर्भ में इसी दृष्टि से विचार करने की आवश्यकता है। कथासरित्सागर में अङ्गुलीयक द्वारा विष के निरसन का वर्णन है जिसकी व्याख्या अपेक्षित है।

प्रथम प्रकाशन : १९९४ ई.
References on Mushti

संदर्भाः

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।

यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥शौअ २.३३.

यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।

अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥शौअ ४.६.

पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।

प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥शौअ ४.१४.

यच्छन्तां पञ्चेति पञ्च वा इमा अङ्गुलयः पाङ्क्तो वै यज्ञस्तद्यज्ञमेवैतदत्र दधाति माश १.१.२.१६

ते वामारभ इति । गर्भो वा एष भवति यो दीक्षते स छन्दांसि प्रविशति तस्मान्न्यक्नाङ्गुलिरिव भवति न्यक्नाङ्गुलय इव हि गर्भाः - ३.२.१.६

अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनस इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहा वातादारभ इति मुष्टीकरोति न वै यज्ञः प्रत्यक्षमिवारभे यथायं दण्डो वा वासो वा परोऽक्षं वै देवाः परोऽक्षं यज्ञः -३.१.३.२५
स यदाह । स्वाहा यज्ञं मनस इति तन्मनस आरभते स्वाहोरोरन्तरिक्षादिति तदन्तरिक्षादारभते स्वाहा द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यामारभते ययोरिदं सर्वमधि स्वाहा वातादारभ इति वातो वै यज्ञस्तद्यज्ञं प्रत्यक्षमारभते - ३.१.३.२६
अथ यत्स्वाहा स्वाहेति करोति । यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्तेऽत्रो एव वाचं यच्छति वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्ते -माश ३.१.३.२७

प्रवर्ग्यकर्मणि अवान्तरदीक्षा - संतरामङ्गुलीराञ्चन्त संतरां मेखलां पर्यस्तामेवैनामेतत्सतीं पर्यास्यन्त... संतरामङ्गुलीरचते संतरां मेखलां पर्यस्तामेवैनामेतत्सतीम्पर्यस्यते प्रजामु हैव तद्देवा उपायन्..संतरामङ्गुलीराञ्चन्त संतरां मेखलां तत्प्रजामात्मन्नकुर्वत तथो एवैष एतत्प्रजामेवोपैति .. संतरामङ्गुलीरचते संतरां मेखलां तत्प्रजामात्मन्कुरुते – माश ३.४.३.२

तान्वा एतान् । पञ्च ग्रहान्गृह्णात्येष वै वज्रो यन्माध्यन्दिनः पवमानस्तस्मात्पञ्चदशः पञ्चसामा भवति पञ्चदशो हि वज्रः स एतैः पञ्चभिर्ग्रहैः पञ्च वा इमा अङ्गुलयोऽङ्गुलिभिर्वै प्रहरति माश ४.३.३.४

यद्वेवापस्या उपदधाति । प्रजापतेर्विस्रस्तादापऽ आयंस्तास्वितास्वविशद्यदविशत्तस्माद्विंशतिस्ता अस्याङ्गुलिभ्योऽध्यस्रवन्नन्तो वा अङ्गुलयोऽन्तत एवास्मात्ता आप आयन् - ७.५.२.४४

ता एता अङ्गुलयः । ताः । सर्वत उपदधाति सर्वतो हीमा अङ्गुलयोऽन्तेषूपदधात्यन्तेषु हीमा अङ्गुलयश्चतुर्धोपदधाति चतुर्धा हीमा अङ्गुलयः पञ्चपञ्चोपदधाति पञ्चपञ्च हीमा अङ्गुलयो नानोपदधाति नाना हीमा अङ्गुलयः सकृत्सकृत्सादयति समानं तत्करोति तस्मात्समानसम्बन्धनाः ७.५.२.६२


स वै पुरस्तादुपधाय पश्चादुपदधाति । प्राणो हापानो भूत्वाङ्गुल्यग्रेभ्य इति संचरत्यपान उ ह प्राणो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यत्पुरस्तादुपधाय पश्चादुपदधात्येनावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ संहितौ - ८.१.३.८

अथ दक्षिणत उपधायोत्तरत उपदधाति । व्यानो होदानो भूत्वाङ्गुल्यग्रेभ्य इति संचरत्युदान उ ह व्यानो भूत्वाङ्गुल्यग्रेभ्य इति संचरति तद्यद्दक्षिणत उपधायोत्तरत उपदधात्येतावेवैतत्प्राणौ संतनोति संदधाति तस्मादेतौ प्राणौ संततौ संहितौ - ८.१.३.९

पञ्चदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूर्ध्वं नाभेस्तत्पञ्चदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमसृज्यतेति क्षत्रमत्रासृज्यतेन्द्रोऽधिपतिरासीदितीन्द्रोऽत्राधिपतिरासीत् - ८.४.३.१०

प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे। स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं सावित्रं माश ११.५.२.१

अयमेवोत्तरो बाहुः शुनासीरीयम्। तस्य यानि पञ्च हवींषि समायीनि ता इमाः पञ्चाङ्गुलयोऽथ य एष उपरिष्टाद्धस्तस्य संधिस्तच्छुनासीरीयमिदं वायव्यं दोः सौर्यं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् - ११.५.२.६

 

मिमीते ऽयातयाम्नियायातयाम्नियैवैनम् मिमीते तस्मान् नाना वीर्या अङ्गुलयः सर्वास्व् अङ्गुष्ठम् उप नि गृह्णाति तस्मात् समावद्वीर्यो ऽन्याभिर् अङ्गुलिभिस् तस्मात् सर्वा अनु सं चरति यत् सह सर्वाभिर् मिमीत सश्लिष्टा अङ्गुलयो जायेरन् । एकयैकयोत्सर्गम् मिमीते तस्माद् विभक्ता जायन्ते पञ्च कृत्वो यजुषा मिमीते पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः ।- तैसं ६.१.९.५

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free