पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Angirasa

 

Dr. Fatah Singh generally states that there are two ways of penances. One is where one does penances for himself only. The other is where one wants to uplift the society along with himself. Angirasaas represent the second type of penances. The first type is represented by Aadityaas and gods. The first has been stated to be a quick jump and this can be completed at this very moment, or on the present day itself. On the other hand, the second type has been stated to be completed in future, in two days.

अङ्गिरस

टिप्पणी :

जैमिनीय ब्राह्मण ३.२६३ इत्यादि के अनुसार अङ्गिरसों का जन्म अङ्गारों से हुआ है । यह निष्क्रिय अङ्गों में अग्नि के प्रवेश से उत्पन्न रस है । शतपथ ब्राह्मण १४.४.१.२१ के अनुसार प्राण अङ्गों का रस बन सकते हैं ( इन सब प्राणों की प्रवृत्ति दिव्य भक्ति रस का आस्वादन करने की है )। ब्राह्मण ग्रन्थों में सार्वत्रिक उल्लेख है ( शतपथ ब्राह्मण ३.५.१.१९ इत्यादि) कि अङ्गिरसों और आदित्यों में स्वर्ग जाने के लिए प्रतिस्पर्द्धा हुई । अङ्गिरसों ने दो दिन के यज्ञ द्वारा स्वर्ग पहुंचने का संकल्प किया, लेकिन आदित्य तो पहले ही दिन स्वर्ग पहुंच गए । इसके पश्चात् आदित्यों द्वारा अङ्गिरसों को पृथिवी दक्षिणा में देना, पृथिवी का सिंही रूप देखकर अङ्गिरसों द्वारा पृथिवी को वापस करके श्वेत अश्व रूपी सूर्य को प्राप्त करने का उल्लेख आता है ( ऐतरेय ब्राह्मण ६.३५ इत्यादि ) । पुराणों के अनुसार अङ्गिरसों ने पृथिवी के बदले कपिला गौ प्राप्त की थी । इस कथा में आदित्य एकाङ्गी साधना का रूप हैं, वह अग्निष्टोम यज्ञ हैं ( जैमिनीय ब्राह्मण २.१२१), वह गौ का रूप हैं ( ऐतरेय ब्राह्मण ४.१७ ), वह छलांग लगाकर( ऐतरेय ब्राह्मण ४.१७) अभिप्लव षडह के द्वारा सारी साधना पूरी करके स्वर्ग लोक पहुंच जाते हैं, वह एक दिन के यज्ञ द्वारा ही साधना पूरी कर लेते हैं । एक दिन आत्मा के अनुदिश साधना का प्रतीक है ( जैमिनीय ब्राह्मण २.२३५) । दूसरी ओर अङ्गिरस सर्वाङ्गीण साधना का रूप हैं, वह प्रत्येक प्राण को साथ लेकर चलते हैं, वह उक्थ यज्ञ हैं, वह पृष्ठ्य षडह यज्ञ द्वारा धीरे - धीरे आगे बढते हैं । वह दो दिन के यज्ञ द्वारा साधना पूरी करना चाहते हैं । दूसरा दिन प्रजा के अनुदिश साधना का प्रतीक है । आदित्य साधना का उत्तर पक्ष हैं तो अङ्गिरस दक्षिण पक्ष ( जैमिनीय ब्राह्मण २.३६६) । पुराणों में ५ अङ्गिरसों द्वारा उत्तर की ओर व ५ द्वारा दक्षिण की ओर साधना का उल्लेख है । गोपथ ब्राह्मण १.२.१८ के अनुसार पृथिवी आदित्य का पद है । पुराणों में अङ्गिरसों को अङ्गिरा के पुत्र कहा गया है । इसका स्पष्टीकरण मुण्डकोपनिषद १.१.२ से मिलता है । ब्रह्मा ने ब्रह्मविद्या का उद्घाटन सर्वप्रथम अथर्वा को किया, अथर्वा ने अङ्गिरा को, अङ्गिरा ने भारद्वाज को कहा और भारद्वाज ने अङ्गिरस को । इसके पश्चात् अङ्गिरस महाशाल को परा और अपरा विद्याओं का कथन करते हैं । भरद्वाज को मन का प्रतीक माना जाता है । ब्रह्मविद्या का यह कथन - उपकथन समाधि से व्युत्थान पर चेतना की ५ क्रमिक अवस्थाओं अस्ति, भाति, प्रिय, नाम व रूप के लिए है । मुण्डकोपनिषद ३.२.८ में अङ्गिरस? द्वारा नाम व रूप त्यागने का उपदेश है(यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ) । गोपथ ब्राह्मण १.३.१९ में भी उल्लेख है कि जो केवल अपनी आत्मा में लीन रहता है, वह अथर्वा है । जो स्वयं व दूसरों के नाम का परित्याग कर देता है ( अर्थात् अपनी चेतना को दूसरों की चेतना में लीन कर देता है ), वह अङ्गिरस है । गोपथ ब्राह्मण १.२.२४ के अनुसार ओम अथर्वण है तो जनत् प्रवृत्ति अङ्गिरस है ।

          ब्राह्मण ग्रन्थों में अङ्गिरसों का उल्लेख दो प्रकार से आता है - अथर्वाङ्गिरस और भृगु - अङ्गिरस । भृगु को यदि भर्जन करने वाली, भूनने वाली अग्नि माना जाए तो पुराणों में अङ्गिरसों के अग्नि - पुत्र होने के उल्लेख की पुष्टि हो जाती है । गोपथ ब्राह्मण १.५.२४ में जहां आदित्य को सामवेद का देवता कहा गया है, वहां भृगु - अङ्गिरस( अथर्व? ) का अधिपति चन्द्रमा और विद्युत को कहा गया है । यही यज्ञ के ब्रह्मा नामक ऋत्विज हैं । शतपथ ब्राह्मण ४.१.५.१ में च्यवन ऋषि की कथा के संदर्भ में च्यवन को भार्गव और आङ्गिरस दोनों कहा गया है । ऋग्वेद १०.६२.१-६ तथा अथर्ववेद २.१२.४ सूक्तों के देवता अङ्गिरस पितरगण हैं । पुराणों में जहां अङ्गिरसों को सुरूपा - पति कहा गया है, ऋग्वेद में इनका विरूपा: विशेषण आया है ( ३.५३.७, १०.६२.५) । विरूप शब्द का अर्थ अन्तर्मुखी होता है ( ऋग्वेद १०.४७.६ ) । उषा के लिए अङ्गिरस्तमा विशेषण का प्रयोग हुआ है ( ऋग्वेद ७.७५.१) और साथ ही उसे पथ्या भी कहा गया है । पुराणों में पथ्या अङ्गिरसों की भार्याओं में से एक है । इन्द्र अङ्गिरसों की सहायता से अङ्गिरस्तम बनता है ( ऋग्वेद १.१००.४ ) और अङ्गिरसों के लिए गायों के निवासस्थान गोत्र को खोल देता है ( ऋग्वेद १.५१.३ ) । अङ्गिरस पितरों द्वारा यम का वर्धन होता है ( ऋग्वेद १०.१४.३ ) । अङ्गिरस तप से गौ की सृष्टि करते हैं ( ऋग्वेद १०.१६९.२ ) । पुराणों में अङ्गिरसों के आत्मा, आयु, मन, दक्ष, मद, प्राण, हविष्मान्, गतीष्ट, ऋत और सत्य जो १० नाम आए हैं, वह वैदिक मन्त्रों में उनके कार्यों के रूप में प्रकट हुए हैं । ऋग्वेद ६.७३.१ में बृहस्पति को आङ्गिरस अर्थात् अङ्गिरसों का पुत्र कहा गया है । अश्विनौ के लिए अङ्गिरस्वन्त होकर स्तोता के आह्वान पर आने का उल्लेख है ( ऋग्वेद ८.३५.१४ )। मरुद्गण सामों के द्वारा अङ्गिरसों की भांति विश्वरूप हो जाते हैं ( ऋग्वेद १०.७८.५) । डा. फतहसिंह के अनुसार किसी शब्द के अन्त में स जोड देने पर वेद में वह मानुषी स्तर का प्रतीक बन जाता है ।

प्रथम प्रकाशित : १९९४ ई

संदर्भ

त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।

ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥१.५१.

सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।

ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥१.१००.

इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।

विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥ऋ. ३.५३.

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।

द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥६.७३.

व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।

अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥७.७५.

अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥८.३५.१४

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।

याँश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥१०.१४.

अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥१०.१४.

प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।

य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥१०.४७.

विरूपास इदृषयस्त इद्गम्भीरवेपसः ।

ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥१०.६२.

अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥१०.७८.

याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद ।

या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥१०.१६९.

आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।

अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥शौअ ११.८.१३

*अङ्गिरसां अयनं पूर्वो अग्निः अथर्ववेद १८.४८

*सर्वे हैवर्ध्नवन्ति य एवं विद्वांस एतेन (आङ्गिरसेन) स्तुवते जै.ब्रा. २.१४

* आदित्य रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्य् अंगिर।इदं राधो बृहत् पृथु देवा ददतु वो वरम्॥ तद् वो अस्तु सुचेतनं। युष्मे अस्तु दिवे दिवे प्रत्य् एव गृभायत॥

इत्य् एवैनान् प्रत्यग्राहयन्। ततो वा आदित्याः पूर्वे स्वर्गं लोकमगच्छन्नहीयन्ताङ्गिरसः। - जै.ब्रा. २.११७

*अग्निष्टोमयज्ञा वा आदित्या उक्थ्ययज्ञा अङ्गिरसः। - जै.ब्रा. २.१२१

* वसवः पुरस्ताद्, रुद्रा दक्षिणत, आदित्याः पश्चान्, मरुत उत्तरतो, विश्वे देवा उपरिष्टात्, साध्याश् चाप्त्याश् चाधस्ताद्, अभितो ऽङ्गिरसः। - जै.ब्रा. २.१४२

 हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव् आस्ताम्। २.२३५

आत्मा वै पूर्वम् अहः प्रजोत्तरम्। आत्मानम् एव पूर्वेणाह्ना संस्कुरुते, प्रजाम् उत्तरेण॥२.२३५

*तद् ये ह वा एत आदित्यस्योदञ्चो रश्मयस् त आदित्या, ये दक्षिणास् ते ऽङ्गिरसः जै.ब्रा. २.३६६

*विष्फुलिंगाभ्य एवाजाश् चैणेयाश् चासृज्यन्त, अङ्गारेभ्योऽङ्गिरसः जै.ब्रा. ३.२६३

* तद् एतद् वीरजननं पशव्यं सामवीरा वै तदजायन्त यदङ्गिरसः जै.ब्रा. ३.२६४

*अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑(सहागच्छन्तु)। - तै.आ. ३.८.१

*घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे। रौद्रेण त्वा ऽङ्गिरसां मनसा ध्यायामि। - तै.आ. ४.३.१

*प्राणो वै यमोऽङ्गिरस्वान् पितृमान्। - तै.आ. ५.७.११

*अङ्गिरसः स्वर्गं लोकं यतो रक्षाँँस्यन्वसचन्त। - तां.ब्रा. ८.९.५

*चतुर्णिधनमाङ्गिरसं (साम)भवति चतूरात्रस्य धृत्यै। - तां.ब्रा. १२.९.१८

*तेषां(अङ्गिरसां) कल्याण आङ्गिरसोऽध्यायमुदव्रजन् स  ऊर्णायुं गन्धर्वमप्सरसाम्मध्ये प्रेङ्ख्यमाणमुपैत् तां.ब्रा. १२.११.१०

*कर्णश्रवा एतदाङ्गिरसः पशुकामः(कार्णश्रवसं) सामापश्यत्तेन सहस्रं पशूनसृजत। - तां.ब्रा. १३.११.१५

*अथैषोऽङ्गिरसामनुक्रीः। एतेन वा अङ्गिरस आदित्यानाप्नुवन्। - तां.ब्रा. १६.१४.१

*आदित्याश्चाङ्गिरसश्चैतत् सत्रँँ समदधतादित्यानामेकविँँशति अङ्गिरसां द्वादशाहः। - तां.ब्रा. २४.२.२

*येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद् बृहस्पतिरभवत्। - ऐ.ब्रा. ३.३४

*ते हादित्याः पूर्वे स्वर्गं लोकं जग्मुः पश्चेवाङ्गिरसः षष्ट्यां वा वर्षेषु। - ऐ.ब्रा. ४.१७

*ते हाङ्गिरसः पूर्वे श्वः सुत्यां स्वर्गस्य लोकस्य ददृशुस्तेऽग्निं प्रजिघ्युरङ्गिरसां वा एकोऽग्निः परेह्यादित्येभ्यः- ऐ.ब्रा. ६.३४

*अथैनम्(इन्द्रम्) ऊर्ध्वायां दिशि मरुतश्चाङ्गिरसश्च देवाः - - - अभ्यषिञ्चन् - - - पारमेष्ठ्याय माहाराज्यायाऽऽधिपत्याय स्वावश्याऽऽतिष्ठाय ऐ.ब्रा. ८.१४

*द्वय्यो ह वा इदमग्रे प्रजा आसुः। आदित्याश्चैवाङ्गिरसश्च। - मा.श. ३.५.१.१३

*त एतेन सद्यःक्रियाङ्गिरस आदित्यानयाजयन्। तेभ्यो वाचं दक्षिणामानयन् ।.. - मा.श. ३.५.१.१७

अथैभ्यः सूर्यं दक्षिणामानयन् । तं प्रत्यगृह्णंस्तस्मादु ह स्माहुरङ्गिरसो वयं वा ऽआर्त्विजीनाः स्मो वयं दक्षिणीया  - माश ३.५.१.१९

यत्र वै भृगवो वाङ्गिरसो वा स्वर्गं लोकं समाश्नुवत तच्च्यवनो वा भार्गवश्च्यवनो वाङ्गिरसस्तदेव जीर्णिः कृत्यारूपो जहे माश ४.१.५.१

*ते प्रयन्ति । अग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्यग्निं पशव्यमग्निवदच्छेम इत्येतत्। - मा.श. ६.३.३.३

*त आदित्याश्चतुर्भिः स्तोमैश्चतुर्भिः पृष्ठैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त। यदभ्यप्लवन्त। तस्मादभिप्लवाः॥ अन्वञ्च इवाङ्गिरसः सर्वैः स्तोमैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन्। तस्मात् पृष्ठ्यः॥ - मा.श. १२.२.२.११

*पारिप्लवाख्यानब्राह्मणम् - अथ चतुर्थेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा आसत इति युवतयः शोभनाः उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः अङ्गिरसामेकं पर्व व्याचक्षाण इवानुद्रवेत्। - मा.श. १३.४.३.८

*सोऽयास्य आङ्गिरसः। अङ्गानां हि रसः। - मा.श. १४.४.१.९

सोऽयास्य आङ्गिरसो अङ्गानां हि रसः प्राणो वा अङ्गानां रसः - मा.श. १४.४.१.२१

*तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत्तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः सन्तप्तेभ्यो यान् मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत्। - गो.ब्रा. १.१.८

*तस्मादिङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति गो.ब्रा. १.१.९

*अग्निरादित्या यम इत्येते अङ्गिरसः। वायुरापश्चन्द्रमा इत्येते भृगवः। - गो.ब्रा. १.२.९

..विचारिन्न् इति भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव अश्व शम्येतेति तथेति स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति – गो.ब्रा. १.२.१८

एतद् वा आदित्यस्य पदं यद् भूमिस् - गो.ब्रा. १.२.१८

ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम् – गो १.२.२४

*येऽङ्गिरसः स रसः गो.ब्रा. १.३.४

तस्य किम् आथर्वणम् इति यद् आत्मन्य् एव जुह्वति न परस्मिन्... अथास्य किम् आङ्गिरसम् इतियद् आत्मनश् च परेषां च नामानि न गृह्णात्य् – गोब्रा १.३.१९

प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । गोब्रा १.५.२४

*तान् हादित्यानङ्गिरसो याजयाञ्चक्रुः।.. ते हाङ्गिरसः श्वःसुत्यां ददृशुस् ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति अथादित्या अद्यसुत्यां ददृशुस् ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम् तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति  - गो.ब्रा. २.६.१४

*भृगूणामङ्गिरसां तपसा तप्यध्वम्। - तै.सं. १.१.७.२

*अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः तै.सं. २.६.१२.६

*अङ्गिरसः सुवर्गं लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन्। - तै.सं. ६.१.१.२

*ये वै देवानामङ्गिरसस्ते ब्राह्मणस्य प्रत्येनसोऽग्निर्वायुर्वाग्बृहस्पतिः। - काठक सं. ८.४

*अङ्गिरसश्च वा आदित्याश्च स्वर्गे लोकेऽस्पर्धन्त, त आदित्या एतं पञ्चहोतारमपश्यँँस्तं मनसानूद्द्रुत्याजुहवुस्तत आदित्यास्स्वर्गं लोकमायन्नपाङ्गिरसोऽभ्रँँशन्त। - काठ.सं. ९.१६

*अङ्गिरसो वै स्वर्गं लोकं यन्तः ऽजायां घर्मं प्रासिञ्चन्त्सा शोचन्ती पर्णं परामृशत्, सोऽर्कोऽभवत् तदर्कस्यार्कत्वम्। - काठक सं. २१.६

*त्रिवत्सस्तिस्रोऽङ्गिरसाम् काठक सं. ४९.६

*द्वयुत्तरेण वै स्तोमेनादित्याः स्वर्गं लोकमायँँश्चतुरुत्तरेणाङ्गिरसः। - मै.सं. ३.४.२

*यमाय त्वा पितृमतेऽङ्गिरस्वते स्वाहा । - मै.सं. ४.९.८

*भद्रा भृगवोऽङ्गिरसः सुदानवः। - काठक संकलन ६२

*तेऽङ्गिरस आदित्येभ्यः प्रजिघ्युः श्वःसुत्या नो याजयत न इति तेषां हाग्निर्दूत आस त आदित्या ऊचुरथास्माकमद्यसुत्या तेषां नस्त्वमेव (अग्ने) होतासि, बृहस्पतिर्ब्रह्माऽयास्य उद्गाता, घोर आङ्गिरसो अध्वर्य्युरिति। - कौ.ब्रा. ३०.६

 

*स एष एवाऽऽङ्गिरसः(अन्नाद्यम्)। अतो हीमान्यङ्गानि रसं लभन्ते। तस्मादाङ्गिरसः। यद्वेवैषामङ्गानां रसस्तस्माद्वेवाऽऽङ्गिरसः। - जै.उ.ब्रा. २.४.२.९

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free