पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Achyuta-Aja-Ajagara

अच्युत

टिप्पणी : अथर्ववेद ६.८८.३ में ध्रुव और अच्युत बनने की कामना की गई है जो पुराणों की ध्रुव की कथा के तुलनीय है। ऋग्वेद १.१६७.८ में मरुद्गण अच्युत ध्रुवों का च्यवन करके ईं अग्नि की वृद्धि करते हैं। वह अच्युतों का ओज से च्यवन करते हैं(ऋग्वेद १.८५.४)। ऋग्वेद ६.१५.१ में अतिथि अग्नि अच्युत गर्भ का भक्षण कर जाती है। अग्नि स्वयं अच्युत है(ऋग्वेद ६.२.९)। वह स्वयं अच्युत होते हुए घृत और मधु से लिप्त भूमि का च्यवन करा देती है। इन्द्र अच्युत होकर अपने बल से पर्वतों और भूमि को च्यवित कर देता है(ऋग्वेद ६.३१.२ इत्यादि)। इन्द्र अच्युत स्वात(स्वाती?) आदि से गायों को ले आता है। इन्द्र मेनि(मन की शक्ति?) को अच्युत कर देता है। इन्द्र व दुन्दुभि के लिए अच्युतच्युत विशेषण आया है(ऋग्वेद २.१२.९, ६.१८.५, अथर्ववेद ५.२०.१२) जो विभिन्न कोशों में अच्युत होने का प्रतीक हो सकता है। अथर्ववेद ९.२.१५ में बृहती के लिए कहा गया है कि यह च्युत और अच्युत दोनों अवस्थाओं में विद्युत और स्तनयित्नु का भरण करती है। शतपथ ब्राह्मण १.६.१.६ के अनुसार देवों ने ऋतुओं का आह्वान करते हुए भी अग्नि को आयतन से च्युत नहीं किया, अतः अग्नि अच्युत है। स्कन्द पुराण की निरुक्ति के अनुसार जिस भक्त का आनन्द प्रलय काल में भी च्युत न हो, वह अच्युत है।

प्रथम प्रकाशन : १९९४ ई.

 

अज

अज

आधुनिकविज्ञाने एकः विषयः ब्लैकहोल/कृष्णछिद्रः अस्ति। अव्यवस्थावृद्धि/एन्ट्रांपीवृद्धि आदि केनापि कारणेन द्रव्यः संपीडितः भवति एवं अस्य द्रव्यस्य गुरुत्वाकर्षणशक्तिः अप्रत्याशितरूपेण वर्धनं प्राप्नोति। अत्युच्चगुरुत्वाकर्षणशक्त्याः कारणेन द्रव्यतः येषां रश्मीनां निर्गमनं भवति, तेषां रश्मीनामपि अन्तःकर्षणं भवति, येन कारणेन कृष्णछिद्राणां छायाचित्रग्रहणमपि दुष्करं अस्ति। कृष्णछिद्रस्य आध्यात्मिकता किं भवितुं शक्यते, अस्मिन् संदर्भे अन्तर्जालोपरि एकः प्रस्तावः अस्ति यत् मूलरूपेण मनुष्यः प्रेमरश्मीनां स्रोतः अस्ति। किन्तु दोषाधिक्यतः प्रेमरश्मीनां अयं स्रोतः शुष्कं भवति। अध्यात्मे अयं कृष्णछिद्रः अथवा ब्लैकहोल अस्ति।



अयं प्रतीयते यत् वैदिकवाङ्मये जीवतः येषां रश्मीनां निर्गमनं भवति, तेषां रश्मीनां त्रयः अवयवाः सन्ति – प्राण, वाक् एवं मन। अथवा सूर्य, पृथिवी एवं चन्द्रमा। एतेषां रश्मीनां निर्गमनं स्व-नियन्त्रितः अस्तु, अयमपेक्षितः अस्ति। सोमयागे सोमवल्लीनां शोधनं द्विप्रकारेण भवति – प्रथमतः उपांशुपात्रेण एवं द्वितीयं अविलोमभिः निर्मितेन पवित्रसंज्ञकेन वस्त्रेण। यः उपांशुपात्रेण शोधनं भवति, तत् अजया शोधनं अस्ति। अज अथवा अजा सांकेतिकः शब्दः अस्ति। स्वेच्छानुसारेण रश्मीनां निर्गमनं त्रोटितुं कर्तुं शक्यन्ते – अ-जा। उपांशु अर्थात् तूष्णीं। यावत् रश्मीनां निर्गमनं भवति, तावत्  तूष्णीं नास्ति। कथनमस्ति यत् आकाशे यः प्राणरूपी सूर्यः अस्ति, तत् उपांशु भवति। व्यवहारे, प्राणरूपस्य सूर्यस्य निर्गमनं निद्रावस्थायां भवति यदा प्राणः हृदये शेते। अस्मिन् स्थित्यां, यदा सूर्यः उपांशुः भवति, तदा प्राण, वाक् एवं मनसः मेलनं सुगमं भवति, इति प्रतीयते। कर्मकाण्डे, मेलनाय यस्य उपकरणस्य प्रयोगं भवति, तस्य संज्ञा उपांशुसवनः अस्ति। सोमवल्लीनां मात्रातः केचन वल्लीन् गृह्णन्ति एवं उपांशुसवनेन तेषां कुट्टनं कुर्वन्ति। तदोपरि कुट्टितवल्लीभ्यः सोमरसं पीडयित्वा तस्य रसस्य ग्रहणं उपांशुसंज्ञके पात्रे कुर्वन्ति एवं तेन उपांशुपात्रेण सोमस्य प्रथमा आहुतिः अग्नौ प्रक्षिपन्ति। अनन्तरं, उपांशुपात्रेणोपरि कुट्टितानां सोमवल्लीनां कुण्डलीं स्थापयित्वा सायंसवनयावत् तेषां संग्रहणं कुर्वन्ति। अनन्तरं, सोमस्य शोधनस्य द्वितीयं प्रकारं – अविलोमनिर्मितेन वस्त्रेण –आरभ्यते।

अजा शब्दे किं रहस्यमस्ति। जीवनतन्त्रे नवीनकोशिकानां जन्म पुराणकोशिकानां खण्डनतः भवति। अयं जायमाना स्थितिः अस्ति। आधुनिकचिकित्साविज्ञाने कैंसरादिव्याधीनां चिकित्सार्थं नवीनकोशिकानां जननं बाधितं कुर्वन्ति। अयं अजा स्थितिः अस्ति। पुराणेषु आख्यानाः सन्ति यत्र अजापालनेन व्याधीनां नियन्त्रणं कुर्वन्ति। एकः अजासंज्ञकः पशुः अस्ति। तस्य किं वैशिष्ट्यं अस्ति। जैमिनीयब्राह्मणस्य १.२९५ कथनमस्ति यत् अजा राथन्तरीं वाचं वदति माक्ककारेण। अयं संकेतमस्ति यत् ओंकार अक्षरे यः तृतीयः मकारः अस्ति, तत् अजातः सम्बद्धः अस्ति। अजा मकारस्य, वीर्य अथवा तेजरहितऊर्जायाः निष्कासनस्य प्रक्रिया अस्ति। केन प्रकारेण, अन्वेषणीयः।

बैबिलग्रन्थे २५.३५ जीसस स्वअनुयायिनां वर्गीकरणं द्वेधा करोति – अविप्रकाराः ये दीनजनानां उपरि करुणां दर्शयन्ति, एवं अजाप्रकाराः ये करुणारहिताः सन्ति।

अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे । तेन देवा देवतामग्र आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥शौअ ४.१४., वा.सं. १३.५१, श.ब्रा. ७.५.२.३६

अत्र अग्नेः शोकः किमस्ति। सायणभाष्ये शोकस्य तात्पर्यं सार्वत्रिकरूपेण प्रजापतेः संतापमस्ति। अयं प्रतीयते यत् शोकशब्दस्य एकाधिकाः अर्थाः सन्ति। एको अर्थः शुकः अपि अस्ति। शुकः शकुनः अस्ति यः भविष्यस्य कथनं करोति। अस्यार्थस्य समर्थनं शतपथब्राह्मणस्य अनेन कथनेन भवति –

अजो ह्यग्नेरजनिष्ट शोकादिति यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत सो अपश्यज्जनितारमग्र इति प्रजापतिर्वै जनिता सोऽपश्यत्प्रजापतिमग्र इत्येतत्तेन देवा देवतामग्र आयन्निति वाग्वा अजो वाचो वै देवा देवतामग्रमायंस्तेन रोहमायन्नुप मेध्यास इति स्वर्गो वै लोको रोहस्तेन स्वर्गं लोकमायुन्नुप मेध्यास इति।

यः पाप्मारूपः शोकः अस्ति, शुक्ल यजुर्वेदे कथनमस्ति यत् तस्य शमनम् आरण्यकपशु शरभेण भवति –

शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तन्वो नि षीद ।
शरभं ते शुग् ऋच्छतु यं द्विष्मस् तं ते शुग् ऋच्छतु ॥

अथर्ववेदे अग्रिमं मन्त्रं   अस्ति –

क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥

अत्र उख्यान् शब्दः उल्लेखनीयः अस्ति। कर्मकाण्डे आरुणकेतुकसंज्ञस्य अग्नेः चयनं भवति यत्र उख्याग्नेः स्थापना भवति। अयमग्निचयनं क्रमिकरूपेण उत्थानस्य प्रक्रिया अस्ति, न तीव्रगतिकः।

अथर्ववेदस्य अस्य सूक्तस्य ये अन्ये मन्त्राः सन्ति, तस्मिन् संदर्भे सत्रस्यर्द्धि साम द्रष्टव्यमस्ति।

शोकशब्दस्य एकमर्थं शुचि अग्नेः अर्थे अपि संभाव्यते। कथनमस्ति यत् अग्नेः रूपत्रयाः सन्ति – पवमानः, पावकः एवं शुचि। निर्मथ्य अग्निः पवमानः अस्ति, वैद्युत् पावकः एवं सूर्ये शुचिः। यः पावकः अस्ति, तत् अप्सु प्रविशतुं शक्नोति। पुराणेषु एवं भगवद्गीतायां सार्वत्रिकरूपेण कथनमस्ति यत्  पावकः वसुसंज्ञकानां देवगणानां अधिपतिरस्ति(यथा ब्रह्माण्डपुराणम् २.३.८.५), अर्थात् ये वासनानां शोधकाः वसवः सन्ति, तेषां पावकः अधिपतिः अस्ति। गरुडपुराणे १.९५.१९ कथनमस्ति यत् पावकः व्यभिचारिणीं सर्वमेध्यत्वं ददाति। तथापि, पावकस्य सामर्थ्यं अजस्य जनने नास्ति, अयं प्रतीयते।

 

टिप्पणी : वेदों में दिए गए विवरण के आधार पर अज और अजा शब्दों में अन्तर करना कठिन हो जाता है। ऋग्वेद १०.१६.४ तथा अथर्ववेद के अजौदन सूक्त ९.५ के आधार पर यह कहा जा सकता है कि अज भाग को निरन्तर पकाकर शुद्ध करना पडता है। अथर्ववेद ४.१४.६ में अज को घृत द्वारा सुशोभित कर एक सुपर्ण या गरुड बना दिया गया है जिस पर आरूढ होकर नाक लोक को जाते हैं। वह अज बैठा तो नाक लोक में है, जबकि उसके पैर चार दिशाओं में प्रतिष्ठित हैं। चार दिशाओं को ज्ञान, दक्षता, विवेक व आनन्द प्राप्ति की दिशाएं कह सकते हैं। काठक संहिता २३.१० में गायत्री अजा के कान पकड कर स्वर्ग जाकर वहां से सोम लाने में सफल होती है। ऋग्वेद १.१६२ के मन्त्रों में अश्वमेध के कर्मकाण्ड से सम्बन्धित जो मन्त्र दिए गए हैं, वह मनुष्य व्यक्तित्व को भावना रूपी अश्व बनाने से पूर्व अज भाग से प्राप्य बल को प्राप्त करने के लिए प्रतीत होते हैं। अथर्ववेद १८.२.२२ में प्रेत के लिए अज द्वारा शीत करने का उल्लेख है(उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः । अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥)

प्रथम प्रकाशन : १९९४ ई.

अजा

टिप्पणी : सत्, रज और तम से युक्त प्रकृति अजा है। जीवात्मा रूपी एक अज इस अजा का भोग करता है। परमात्मा रूपी एक दूसरा अज निष्काम भाव से अजा को देखता रहता है। - फतहसिंह

     अजा के विषय में ब्राह्मण ग्रन्थों को मुख्यतः दो धाराओं में विभाजित किया जा सकता है। प्रथम धारा ऋग्वेद १०.९०.१० पुरुष सूक्त में प्रजापति से अश्व, गौ, अज व अवि पशुओं की उत्पत्ति से आरम्भ होती है। ऐतरेय ब्राह्मण २.८ इसकी व्याख्या का एक रूप है जहां पुरुष पशु का आलभन करने से उसका मेध क्रमशः चारों पशुओं में प्रवेश करता है। अन्य कईं स्थानों जैसे शतपथ ब्राह्मण ६.२.२.१५ तथा काठक संहिता १३.१ में स्वयं अजा के विभिन्न अङ्गों को चारों पशुओं के रूप में चित्रित किया गया है। दूसरी धारा तैत्तिरीय आरण्यक १०.१०.१(महाना. उप. १०.१२.५) तथा श्वेताश्वर उपनिषद आदि में प्रकट होने वाले मन्त्र अजामेकं कृष्णां इति मन्त्र की व्याख्या के रूप में है। जो इन्द्रियों या बुद्धि रूपी कपाल का रस है(शतपथ ब्राह्मण ६.१.१.११), वह अजा का रूप धारण कर सकता है। अजा सभी उपलब्ध रसों का आस्वादन कर सकती है(शतपथ ब्राह्मण ६.५.४.१६)।तप से इस रस को अन्तर्मुखी बना सकते हैं(जैमिनीय ब्राह्मण १.२९४, शतपथ ब्राह्मण ३.३.३.८)। अथर्ववेद ९.५ अज ओदन देवता का सूक्त है जो अजा शक्ति को ऊर्ध्वमुखी उदान प्राण बनाने से सम्बन्धित है।

     अश्व, गौ, अज व अवि पशुओं में अन्तर विचारणीय है। अज का श्रेष्ठ रूप एक पाद रूप में है जबकि अवि का द्विपाद रूप में। अश्विनौ देवगण के लिए अजा देने का विधान है(शतपथ ब्राह्मण १२.७.२.७) जबकि सरस्वती के लिए अवि दी जाती है। शुक्ल यजुर्वेद ३०.११ के अनुसार अज तेज से और अवि वीर्य से सम्बन्धित है। ऋग्वेद ६.५६.६ तथा १०.२६.८ में अजासः  को पूषा देवता के रथ का वाहक कहा गया है। छान्दोग्य उपनिषद २.१८.१ में अजा, अवि आदि को भक्ति योग के हिंकार, प्रस्ताव आदि कहा गया है। हिंकार सूर्य की अनुदित अवस्था तथा प्रस्ताव सूर्य की उदित अवस्था का नाम है। इसके पश्चात् चन्द्रमा का उदय होता है।

प्रथम प्रकाशन : १९९४ ई.

 

अज,जा

असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत।

अजोषा वृषभं पतिम्॥ १.००९.०४

अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः॥ १.०६७.०५

अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व।

ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः।

नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे॥ १.१३८.०४

उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः।

अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः॥ १.१६३.१२

अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम्।

रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः॥ १.१७४.०३

अज गच्छ जेतुम्

अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता।

ताभ्यां वृत्राणि जिघ्नते॥ ६.०५७.०३

अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः।

अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते॥ ६.०५८.०२

आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत्।

अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि॥ ७.०१८.१९

 

यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता।

स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे॥ ८.०४१.१०

अविता नो अजाश्वः पूषा यामनियामनि।

आ भक्षत्कन्यासु नः॥ ९.०६७.१०

अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः।

यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम्१०.०१६.०४

तस्मादश्वा अजायन्त ये के चोभयादतः।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥ १०.०९०.१०

 

१. अजं पशुम् (प्रजापतिः शीर्षत एव मुखतोऽसृजत ) । स शीर्षत एव मुखतस् त्रिवृतं स्तोमम् असृजत गायत्रीं छन्दो रथन्तरं सामाग्निं देवतां ब्राह्मणं मनुष्यम् अजं पशुम्। जै ,६८

२. अजया ( सोमम् ) क्रीणाति, तप एवास्य क्रीणाति । मै , , ; काठ २४,१ । ३. अजस्यैकपदः पूर्व्वे प्रोष्ठपदाः। वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । । तैब्रा , ,,,

अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रतिमोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । तैब्रा ,,,

४. अविर् वै राथन्तरीं वाचं वदति क्रन्देन । अजा वै बार्हत्य् ऊर्ध्वेवाक्रान्ता। सा राथन्तरीं वाचं वदति माक्ककारेण । जै ,२९४

५. गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः।  (साम )। जै , ३३३; , ३४

६. अजायै पयसाऽऽच्छृणत्ति । प्रजापतेर्वै शोकादजा समभवन्प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यद्वेवाजाया अजा ह सर्वा ओषधीरत्ति । माश , ,,१६

७. अथाजलोमैः संसृजति । ....अजे हि सर्वेषां पशूना रूपम् । माश , , ,

८. अजोऽग्नीषोमीयः । तां २१, १४, ११

, अजोऽस्यजास्मदघा द्वेषासि । तैआ , १०,

१०. अथ यः कपाले रसो लिप्त आसीत्सोऽजोऽभवत् । माश , , ,११, ६,३,,२८

११. अथ यदेनम् (सोमम् ) अजया क्रीणाति, सतपसमेवैनं तत् क्रीणाति । काश ४,,,१४

सोमक्रयाभिधानम् - अजया क्रीणाति सतपसम् एवैनं क्रीणाति - तैसं ,,१०,

यदजा भवति सतपसमेवैतत्क्रीणाति - माश , , , १८

१२. अथैतदन्तर्यामपात्रं पुनः प्रयुज्यते ऽजां वा एतत् प्रति । मै ४, ,८ ।

१३. अश्वस्येव वा एतस्य ( अजस्य ) शिरो गर्दभस्येव कर्णौ पुरुषस्य श्मश्रूणि गोरिव पूर्वौ पादा अवेरिवापरौ शुन इव लोमान्यजो भवति । काठ १३, ( तु. मै २,,१)।

१४. आजा ह वै नामैषा यदजैतया ह्येनं ( सोमं ) अन्तत आजति तामेतत्परोऽक्षमजेत्याचक्षते । माश , , ,

१५. आश्विनमजमालभेत | काठ १२, १२ ।

१६. उपांशुपात्रमेवान्वजाः प्रजायन्ते ।तद्वै तत्पुनर्यज्ञे प्रयुज्यते तस्मादिमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते  माश , , ,

१७. आहवनीये द्वितीया चितिः -- बस्तो वय इति बस्तं वयसाऽऽप्नोद्विवलं छन्द इत्येकपदा वै विवलं छन्द एकपदा ह भूत्वाजा उच्चक्रमुः । माश , , ,

१८. एष एतेषां पशूनां प्रयुक्ततमो यदजः तेऽजमालभैत सोऽजादालब्धादुदक्रामत् स इमां प्राविशत्तस्मादियध्याभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत्त। ऐ ,

१९. एषा (अजा ) हि पशूना सहस्रपोषं पुष्यति । अतो ह्येषा त्रीञ्जनयत्यथो द्वौ । क ३७,७ ।

२०. अश्वं चाविं चोत्तरत । .... गां चाजं च दक्षिणत एतस्यां तद्दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ । माश , , , १६।।

२१. गायत्री छन्दस्तदजा, बृहस्पतिर्देवता। मै , १३, १४

२२. सूर्य्यं देवमजमेकपादं प्रोष्ठपदासो अनुयन्ति सर्वे । तै , , , । ।

२३. यत्र वा अदश्छन्दांसि सोमं आहरंस्तानि तमसा न प्राजानन् , ततो गायत्त्र्यजामादायोदपतत्, सा वा एभ्यः प्रारोचयत्, ततो वै छन्दांसि सोमं आहरन् । मै , ,

२४. अथाजायां प्रतीचीनमुख्यां वाचयति । तपसो ह वाऽएषा प्रजापतेः सम्भूता यदजा तस्मादाह तपसस्तनूरसीति । माश ,,,

२५. सा गायत्र्युदपतच्चतुरक्षरा सती साजया कर्णगृह्योदपतत् तमस्या अजाभ्यारुणत् तदजाया अजात्वँ । काठ २३, १०; क ३७,१ ।

२६. सौत्रामणी यागः - तस्याक्षिभ्यामेव तेजोऽस्रवत् । सोऽजः पशुरभवद् धूम्रः । माश १२, , ,

२७. दर्शोपचारः -- ताभ्यामेतद्यथा ज्ञातिभ्यां वा सखिभ्यां वा सहागताभ्या समानमोदनं पचेदजं वा । माश , , ,

२८. चरकसौत्रामणिः -- यद्येवं समृद्धान्न विन्देदप्यजानेवालभेरंस्ते   सुश्रपतरा भवन्ति । माश , , , ।  

२९. त्वष्ट्रे ऽजाम् ( दद्यात् ) । तैआ ,१०,

३०. परमेण पशुना ( अजया, हे सोम त्वं) क्रीयसे । क १, १९ ।

३१. परमो ह्येषा (अजा) पशूनाम् । काठ २४, ; क ३७,७ ।

३२. अवटखननम् - अजायै पयसाऽऽच्छृणत्ति । प्रजापतेर्वै शोकादजा (:) समभवन् । माश , , ,१६

३३. प्राजापत्यमजं तूपरं विश्वरूपमालभेत सर्वेभ्यः कामेभ्यः…..श्वस्येव वा एतस्य शिरो गर्दभस्येव कर्णौ पुरुषस्येव श्मश्रूणि गोरिव पूर्वौ पादा अवेरिवापरौ शुन इव लोमान्यजो भवति । काठ १३.१

अथ यदरसदिव स रासभोऽभवदथ यः कपाले रसो लिप्त आसीत्सोऽजोऽभवदथ यत्कपालमासीत्सा पृथिव्यभवत् माश ६.१.१.११

यद्वेवैतं पशुमालभते । एतस्मिन्ह पशौ सर्वेषां पशूनां रूपं यत्तूपरो लप्सुदी तत्पुरुषस्य रूपं तूपरो हि लप्सुदी पुरुषो यत्तूपरः केसरवांस्तदश्वस्य रूपं तूपरो हि केसरवानश्वो यदष्टाशफस्तद्गो रूपमष्टाशफो हि गौरथ यदस्यावेरिव शफास्तदवे रूपं यदजस्तदजस्य तद्यदेतमालभते तेन हैवास्यैते सर्वे पशव आलब्धा भवन्त्यतो यतमदस्य कर्मोपकल्पेतैते वा पञ्च पशव एष वा प्राजापत्य एष वा नियुत्वतीयः माश ६.२.२.१५

आग्नेयीं वसन्ता सौरी ग्रीष्मे बार्हस्पत्याँ शरदि यदाग्नेयी मुखत एव तया तेजो धत्ते यत् सौरी मध्यत एव तया रुचं धत्ते यद् बार्हस्पत्योपरिष्टादेव तया ब्रह्मवर्चसं धत्ते – काठक १३.१

तिस्रोऽजाश्श्वेता मल्हा गर्भिणीरालभेत ब्रह्मवर्चसकाम .... यच्छ्वेता रुच एव तद्रूपं गर्भिणीर्भवन्तीन्द्रियं वै गर्भ इन्द्रियमेवावरुन्द्धे – काठक १३.१

आग्नेयमजमालभेत सौम्यमृषभं यस्य पिता पितामहः पुण्यस्स्यादथ तन्न प्राप्नुयाद – काठ १३.५

अजासि रयिष्ठाः पृथिव्याँ सीद । ऊर्ध्वान्तरिक्षमुपतिष्ठस्व दिवि ते बृहद्भास्स्वाहा ॥ - काठ १३.११

सौ वा आदित्य इमे अभ्यक्रन्दत् ते गर्भमदधातां ततोऽजा वशाजायत तस्मात् सौरी भवति- काठ १३.१२

३४. प्रोष्ठपदा नक्षत्रमज एकपाद्देवता । तैसं ,,१०,; मै २,१३,२० ।

३५. बस्तेनाजाः (अन्वाभवत् ) । काठ ३५,१५, ४३,४ ।

३६. तमजस्योपरिष्टात्प्रगृह्णन्नैति.....ब्रह्म वाऽ ( वाग्वाऽ [माश ७,,,२१) अजः । माश ,,,१५

३७. अथैतान्पशूनावर्तयन्ति । तेषामजः प्रथम एत्यथ रासभोऽथाश्वोऽथेतो यतामश्वः प्रथम एत्यथ रासभोऽथाजः क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं चानु रासभो  ब्राह्मणम्   अजः । माश ,,,१२

३८. यः (वषट्कारकृतगायत्रीशिरश्छेदाद् उद्भूतो रसः) पशून् (प्राविशत् ) सोऽजाम् (प्राविशत्)। तैआ ५,,४॥

३९. महावीरादिप्रवर्ग्यपात्रसंभरणम् - अथाजाक्षीरम्। यज्ञस्य शीर्षछिन्नस्य शुगुदक्रामत्ततोऽजा समभवत् । माश १४,,,१३

४०. यदजायै पयस्तद् देवानां पयः । तैआ ५,१०,२ ।

४१. यद्गां ददात्यायुस्तेन स्पृणोति यद्वासो ददाति दीर्घं तेनायुष्कुरुते यदश्वं ददाति सूर्यभ्राजमेवैनं करोति यदनो यद्रथं ददाति शरीराणि तेन स्पृणोति यदविं यदजां ददाति माँसानि तेन स्पृणोति। काठ २८,; क ४४,५।

४२. स प्राणेभ्य एवाधि पशून्निरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद्गां श्रोत्रादविं वाचोऽजम्  । माश , ,,

४३. वायवे श्वेतमजमालभेत बुभूषन् । काठ १२,१३ ।

४४. वायव्यमजमालभेत........भूतिकामः । मै २,,११ ।

४५. विष्फुलिङ्गाभ्य एवाजाश्चैणेयाश्चासृज्यन्त । जै ३,२६३ ।

४६. सर्वाणि वा एष (अजस्तूपरः ) रूपाणि पशूनां प्रत्यालभ्यते यच्छ्मश्रुणस्तत् पुरुषाणा रूपं यत् तूपरस्तदश्वानां, यदन्यतोदन् तद्गवां, यदव्या इव शफास्तदवीनां, यदजस्तदजानाम् । तैसं ,,,-३।

४७. सा गायत्र्यजया ज्योतिषोदपतत् (+ सास्यै [गायत्र्यै। प्रारोचयत् [काठ.)। काठ २४, ; क ३७, ७ ॥

४८ सा गायत्र्युदपतच्चतुरक्षरा सती साजया...तमस्या अजाऽभ्यारुणत् । काठ २३, १०।  

४९. साजया कर्णगृह्योदपतत् (गायत्री)। क ३७,१ ।

५०. सा (अजा) त्रीञ्जनयत्यथो द्वौ । काठ २८,१० ।

५१. सा (अजा) यत् त्रिः संवत्सरस्य विजायते तेन परमः पशुः ( तेन प्रजापतेर्वर्णः)।

माश ३,,,८।

५२. इम वै सहास्तां ते वायुर्व्यवात् ते गर्भमदधातां ततोऽजा वशाजायत तामग्निरग्रसत तां प्रजापतिरेतेन पुरोडाशेन निरक्रीणाद्यदाग्नेयः पुरोडाशो भवति निष्क्रीत्यै यद्वायुर्व्यवात् तस्माद्वायव्या यद् द्यावापृथिवी गर्भमधातां तस्माद् द्यावापृथिव्येमे वै सहास्तां ते यथा वेणू संधाव्येते एवँ समधाव्येताँ सा या वागासीत् साजा वशाभवत् तस्मात् सारस्वती भवत्यसौ वा आदित्य इमे अभ्यक्रन्दत् ते गर्भमदधातां ततोऽजा वशाजायत तस्मात् सौरी भवति। काठ १३,१२

५३. वशालम्भार्थो विधिः - सा वा एषा सर्वदेवत्या यदजा वशा । तैसं ,,,

पशुशीर्षकोपधानम् - अजा ह्य् अग्नेर् अजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्रे । तया रोहम् आयन्न् उप मेध्यासः तया देवा देवताम् अग्र आयन् । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥ तैसं ४.२.१०.४,

सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषां पशूनां प्रयुक्ततमो यदजस्तेऽजमालभैत सोऽजादालब्धादुदक्रामत् स इमां प्राविशत्तस्मादियम्मेध्याभवत् अथैनमुत्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत् – ऐब्रा. २.८

अजो ह्यग्नेरजनिष्ट शोकात् सो अपश्यज्जनितारमग्रे । तेन देवा देवतामग्रमायँस्तेन रोहमायन्नुप मेध्यासः ॥ शरभमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद ॥

३३० मै २.७.१७, काठ १६.१७,

सा गायत्र्युदपतच्चतुरक्षरा सती साजया कर्णगृह्योदपतत् तमस्या अजाभ्यारुणत् तदजाया अजात्वँ – काठ.सं. २३.१०

उखानिर्माणम् -- अजलोमैःसृजति । एषा वा अग्नेः प्रिया तनूर् यद् अजा प्रिययैवैनं तनुवा ससृजत्य्  - तैसं ५.१.६.२, काठ १९.५, क ३०.३, तैआ ५.२.१३,

५१२ मै १.६.४;

छन्दांसि वा अमुष्माल्लोकात् सोममाहरँस्तत् तमोऽन्तराधीयत सा गायत्र्यजया ज्योतिषोदपतत् सास्यै प्रारोचयदेतर्हि वा एष एतस्मा आह्रियते यर्हि क्रीयते तम इदमन्तरा यदजया क्रीणाति प्रैवास्मै रोचयतिकाठ सं. २४.६

ग्निर्वै प्रजापतेरग्निजा अजास्सहस्रपोषं पुष्यन्तीत्येषा हि पशूनाँ सहस्रपोषं पुष्यत्यतो ह्येष त्रीञ्जनयत्यथो - काठ २४.६;

अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीसरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ महाना. उप. १०.१२.

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ छा.उ. २.१८.

वीर्यायाविपालं तेजसे ऽजपालम् – वा.सं. ३०.११

आश्विनीरजाः सारस्वतीरवीरैंद्रीर्गाव इत्याहुः। - माश १२.७.२.७

अजायै पयसाऽऽच्छृणत्ति(उखां) । प्रजापतेर्वै शोकादजा समभवन्प्रजापतिरग्निर्नो वा आत्मात्मानं हिनस्त्यहिंसायै यद्वेवाजाया अजा ह सर्वा ओषधीरत्ति सर्वासामेवैनामेतदोषधीनां रसेनाऽऽच्छृणत्ति माश ६.५.४.१६

तपसस्तनूरसीति तपसो ह वा एषा प्रजापतेः सम्भूता यदजा – माश ३.३.३.८

अनेन राजानमादत्त आजा ह वै नामैषा यदजैतया ह्येनमन्तत आजति तामेतत्परोऽक्षमजेत्याचक्षते माश ३.३.३.९

 अङ्गिरसो वै स्वर्यन्तोऽजायां घर्मं प्रासिञ्चन् , सा शोचन्ती पर्णं परामृशत् , सोऽर्कोऽभवत् , यदर्कपर्णेन जुहोति , अर्केण वा एतदर्कमवयजति,- मै ३.३.४, काठ २१.६, क ३१.२१;

आग्नेय- २० आग्नेयी-३ द्र.]। 

अज-क्षीर

१. शतरुद्रीयहोमाभिधानम् -- अनाहुतिर् वै जर्तिलाश् च गवीधुकाश् चेति । अजक्षीरेण जुहोति । आग्नेयी वा एषा यद् अजा । आहुत्यैव जुहोति न ग्राम्यान् पशून् हिनस्ति नारण्यान् ॥  तैसं ,,,

२. अजक्षीरेणाच्छृणत्ति सा (अजा) ह्याग्नेयीतमा । काठ १९, ७ ।

३. उखासंस्कारः -- अजक्षीरेणा ऽऽच्छृणत्ति परमं वा एतत्पयो यदजक्षीरम् । तैसं ,,,

[र-आग्नेय- २ द्र.]।

 

 

 

अज-लोम

शन्त्वायाजलोमैः स सृजति । तैसं ५,,,२ ।

अजावि

१. अजावी आलभते भूम्ने । तै ३,,,३ ।

२. तस्मादेताः (अजावयः) त्रिः संवत्सरस्य विजायमाना द्वौ त्रीनिति जनयन्ति । माश ४,,,६ ।

अजाविक

१. अजाविकमेवोष्णिक् । कौ ११,२ ।

२. तस्मादु सह सतोऽजाविकस्योभयस्यैवाजाः पूर्वा यन्त्यनूच्योऽवयः ।माश ४,,,४ ।

अजगर

१. अजगरं स्वप्नः (गच्छति) । गो १,,२।

२. अजगरेण सर्पान् (अन्वाभवत् ) । काठ ४३,४ (तु. काठ ३५,१५)।

३. गुदाभ्योऽहयो ऽजगराः ( अजायन्त )। जै २, २६७ ॥

४. बलायाजगरः । मै ३, १४, १९ ।

अजर्षभ

प्रजापतिर्वाऽएष यदजर्षभः । माश ५, ,, २४ ।

अजस्र

अग्निरजस्रः। माश ६, ,, ३ ।

अजिर

एष वै मृत्युर्यद् वायुरजिर एव नाम । जै १, २६ ।

अञ्जन->अञ्जन-गिरि

तानि ( रक्षांसीन्द्रः ) अञ्जनगिरिणान्तरधत्त रक्षांस्येतं सचन्ते यो दीक्षते भवति हि यदाङ्क्ते रक्षसामन्तर्हित्या इन्द्रो वै वृत्रमहस्तस्य (वृत्रस्य) चक्षुः परापतत् तत् त्रिककुभं प्राविशद्यदाङ्क्ते, तस्यैव चक्षुषोऽवरुद्ध्यै । काठ २३, १ ।

अञ्जलि

१. तस्मादु हैतद् भीतोऽञ्जलिं करोति । माश ९, , , ३९ ।

२. दश वाऽअञ्जलेरंगुलयः । माश ९, ,, ३९ ।

अञ्जस्कीय

एतेन वै नमी साप्यो वैदेहो राजाञ्जसा स्वर्गं लोकमैदञ्जसाऽऽगामेति तदञ्जस्कीयानामञ्जस्कीयत्वम् । तां २५, १०, १७ ।

 अजगर

१. अजगरं स्वप्नः (गच्छति) । गो १,,२।

२. अजगरेण सर्पान् (अन्वाभवत् ) । काठ ४३,४ (तु. काठ ३५,१५)।

३. गुदाभ्योऽहयो ऽजगराः ( अजायन्त )। जै २, २६७ ॥

४. बलायाजगरः । मै ३, १४, १९ ।

अजर्षभ

प्रजापतिर्वाऽएष यदजर्षभः । माश ५, ,, २४ ।

अजस्र

अग्निरजस्रः। माश ६, ,, ३ ।

अजिर

एष वै मृत्युर्यद् वायुरजिर एव नाम । जै १, २६ ।

अञ्जन->अञ्जन-गिरि

तानि ( रक्षांसीन्द्रः ) अञ्जनगिरिणान्तरधत्त रक्षांस्येतं सचन्ते यो दीक्षते भवति हि यदाङ्क्ते रक्षसामन्तर्हित्या इन्द्रो वै वृत्रमहस्तस्य (वृत्रस्य) चक्षुः परापतत् तत् त्रिककुभं प्राविशद्यदाङ्क्ते, तस्यैव चक्षुषोऽवरुद्ध्यै । काठ २३, १ ।

अञ्जलि

१. तस्मादु हैतद् भीतोऽञ्जलिं करोति । माश ९, , , ३९ ।

२. दश वाऽअञ्जलेरंगुलयः । माश ९, ,, ३९ ।

अञ्जस्कीय

एतेन वै नमी साप्यो वैदेहो राजाञ्जसा स्वर्गं लोकमैदञ्जसाऽऽगामेति तदञ्जस्कीयानामञ्जस्कीयत्वम् । तां २५, १०, १७ ।

  

अजगर

टिप्पणी : जैमिनीय ब्राह्मण २.२६७ के अनुसार गुदाओं से अहि और अजगरों की उत्पत्ति हुई। काठक संहिता ४३.४ व ३५.५ में उल्लेख है कि अजगर से सर्प उत्पन्न हुए। मैत्रायणी संहिता ३.१४.१९ इत्यादि के अनुसार बल के लिए अजगर की प्राप्ति करे। गोपथ ब्राह्मण १.२.२ के अनुसार स्वप्न अजगर बन जाता है और ब्रह्मचारी स्वप्न रूपी अजगर पर विजय पाने के लिए सुषुप्ति में निद्रा लेते हैं। अजगर का अर्थ है जो अज रूपी शक्ति को ग्रस ले। गुदा की सर्वोच्च स्थिति गुदगुदी या आनन्द है। स्वप्न का सुदर्शन चक्र बनना अपेक्षित है।

प्रथम प्रकाशन : १९९४ ई.

 

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free