पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Akuupaara अकूपार

अकूपारः

कर्मकाण्डे अतिरात्रसंज्ञके सोमयागे रात्रिकालस्य विभाजनं पर्यायत्रयेषु भवति । यः मध्यमपर्यायः अस्ति, तत् मध्यरात्रिकालस्य सूचकः अस्ति। अस्मिन् काले चतुर्णां स्तोत्राणां गानं भवति। प्रथमतः दैवोदासं संज्ञकः, द्वितीयः आकूपारम्, तृतीयः आर्षभम्, चतुर्थः गारम्। प्रथमस्य स्तोत्रस्य सम्बन्धं होताऋत्विजेन सह अस्ति, द्वितीयस्य मैत्रावरुणेन, तृतीयस्य ब्राह्मणाच्छंसिना, चतुर्थस्य अच्छावाकेन। मध्यरात्रिः प्रगाढतमस्य निद्रायाः कालं अस्ति। योगदृष्ट्या, अस्याः निद्रायाः किं स्वरूपं अस्ति। ताण्ड्यब्राह्मण १.१०.९ अनुसारेण – त्रिवृदसि त्रिवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत (प्रथमं स्तोत्रं), सवृदसि सवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत(द्वितीयं स्तोत्रम्), प्रवृदसि प्रवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत(तृतीयं स्तोत्रम्), अनुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत (चतुर्थं स्तोत्रम्)। अस्मिन् कथने एकः तथ्यः स्पष्टमस्ति यत् प्रगाढनिद्रातः उत्तरकाले या नवीनप्रेरणा प्राप्ता भवति, तस्याः उल्लेखमत्र सवितृप्रसूता रूपेण अस्ति।

     भागवतपुराणे ५.१८.३० अर्यमादेवः पितृभिः सह कूर्मस्य/

अकूपारस्य स्तुतिं करोति। अयं संकेतमस्ति यत् कूर्मस्य एकं कृत्यं पितृणां तर्पणमस्ति। प्रगाढनिद्रायां पितृतर्पणस्य विशेषावश्यकता भवति। कारणं, तत्र प्राणस्य प्रत्यक्षसहयोगस्य लोपं भवति, केवलं परोक्षप्राणः, स्वधा एव शिष्टं भवति। जैमिनीयब्राह्मण १.२२०-१.२२१ अनुसारेण आकूपारस्तोत्रस्य (आ तू न इन्द्र – ग्रामगेयः १६७।३) ऋषिः वेणुः विश्वामित्रः अस्ति यः ब्रह्मवर्चसप्राप्त्यर्थं अस्य स्तोत्रस्य गानं करोति। अत्र वेणुशब्दः ध्यातव्यमस्ति। वेणुतः संगीतसर्जनाय तस्मिन् प्राणानां फूत्कारं अपेक्षितमस्ति। किन्तु अनुमानमस्ति यत् प्रगाढनिद्रायां कूर्मप्राणः वीणायन्त्रं भवति यस्मात् संगीतः प्रस्फुरति। हरिवंशपुराण २.११०.३४ मध्ये नारदस्य वीणायाः तुलना कूर्माकृतिना सह कृतमस्ति।

 

 

 

    

अग्निपुराणे ८७.५ कथनमस्ति यत् कूर्म-कृकल प्राणयोः स्थितिः अलम्बुषा-यशा नाड्योः मध्ये भवति। अलम्बुषा नाडी बुषानां, जीर्णितप्राणानां स्थानमस्ति(बुस – उत्सर्गे- काशकृत्स्नधातुव्याख्यानम्)। सैव कूर्मप्राणः विष्णोः प्रवेशनेन कूर्मावतारः भवितुं शक्यते।

वीङ्कंसंज्ञः साम(ग्रामगेयः ३४५, यदिन्द्र चित्र म इह इति) प्रगाढनिद्रा/योगनिद्रायाः संदर्भे क्रियात्मकः निर्देशमस्ति। जै.ब्रा. ३.२०३ अस्य व्याख्यायां कथयति यत् मध्यरात्रे ये अवशिष्टाः प्राणाः सन्ति, तेषां साक्षात्कारं यक्षरूपेण क्रियमाणं अपेक्षितमस्ति। (अथर्ववेदः ४.५ सूक्तमपि द्रष्टव्यमस्ति)

ऋग्वेद ५.३९.२ के सायण भाष्य में अकूपार की व्याख्या अकुत्सितो पारो अन्तो यस्य तादृशस्य अन्नस्य के रूप में की गई है। शब्दकल्पद्रुम में अकूपार की निरुक्ति अ कूपारः या न कूपारः के रूप में की गई है तथा कूपार की निरुक्ति कुं पृथिवीं पिपर्त्ति के रूप में की गई है। पॄ पालन पूरणयोः। पदानुक्रमकोश (वैदिक भाग) में अकूपार की परिभाषा निःसीम रूप में की गई है।

संदर्भ

*यदिन्द्र चित्र मेहनाऽस्ति त्वादातमद्रिवः ।

राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥

*यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।

विद्याम तस्य ते वयमकूपारस्य दावने ॥

*यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।

तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥ - ऋ. 5.39.1-3

*ऋषयो वै सत्राद् उत्थायायन्त आयुञ्जानाः। ते होचुर् एत किं चिद् एव यक्षं पश्यामेति। ते होचुर् अकूपारो वा अयं कश्यपस् समुद्रे ऽन्तर् महद् यक्षम्। एत तं पश्यामेति। तं हान्वभ्यवेयुः। तेभ्यो ह नाविर् आस। ते होचुर् एतेन्द्रम् एव स्तवाम स वावास्येशे। स एव न इमं दर्शयिष्यतीति। ते ऽत्रिम् अब्रुवन्न् ऋषे, त्वं स्तुताद् इति। स एतम् अत्रिस् तृचम् अपश्यत्। तेनैनम् उपायन्

यद् इन्द्र चित्र म इह नास्ति त्वादातम् अद्रिवः।

राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर॥

इति। स हेक्षांचक्रे महत् बत म ऋषयो याचन्ति। उभयाहस्त्य् आ भरेति वा आहुर् इति।

यत् ते दिक्ष  प्रराध्यं मनो अस्ति श्रुतं बृहत्।

तेन दृढा चिद् अद्रिव आ वाजं दर्षि सातये॥

इति। स हेक्षांचक्रे दृढं बत म ऋषयो याचन्ति। न हाजज्ञाव् अकूपारं दिदृक्षन्त इति।

यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर।

विद्याम तस्य ते वयम् अकूपारस्य दावने॥

इति। स हाजज्ञाव् अकूपारं वै दिदृक्षन्त इति। तं ह पदोदस्यन्न् उवाचेदम् एव मेदम् ऋषयो महद् इवोभयाहस्त्य् आ भरेत्य अवोचन्न् इति। तम् अपश्यन्। ता एताः कामसनय ऋचः। एतं वै ते कामम् अकामयन्त। स एभ्यः कामस् समार्ध्यत। यत्काम एवैताभिर् ऋग्भि स्तुते, सम् अस्मै स काम ऋध्यते॥ - जै.ब्रा. 3.203
पञ्चमस्याह्नः पार्थस्य लोक आकूपारम् वात्रेयं वेति विचारयन्ति। नानापुरुषकल्पौ स्यातामिति ह स्माह धानञ्जय्यः। अन्य एवाकूपारमरोचयिष्यत, अन्य आत्रेयम्। ......चतुर्थस्याह्नः शुद्धाशुद्धीयस्य लोक आकूपारम्। - निदानसूत्रम् ८.१३.३७-४१

विद्याम तस्य ते वयम् अकूपारस्य दावन। विद्याम तस्य ते वयम् अकुपरणस्य दानस्य। आदित्यो अप्य् अकूपार उच्यते अकूपारो भवति दूरपारः । समुद्रो अप्य् अकूपार उच्यते अकूपारो भवति महा पारः । कच्छपो अप्य् अकूपार उच्यते अकूपारस् न कूपम् ऋच्छति इति। कच्छपः कच्छम् पाति कच्छेन पाति इति वा कच्छेन पिबति इति वा। कच्छः खच्छः खच्छदः । अयम् अपि इतरो नदी कच्छ एतस्माद् एव कम् उदकम् तेन छाद्यत यास्क निरुक्त 4.18 

*तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।

वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥ - ऋ. 10.109.1

*तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।

वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥ - शौ.अ. 5.17.1

*नाक्रो मकरः कुलीपयस् ते ऽकूपारस्य वा.मा.सं. 24.35

*अपां नप्त्रे जषः ।     नाक्रो मकरः कुलीकयस् ते ऽकूपारस्य ।     वाचे पैङ्गराजः ।     भगाय कुषीतकः ।     आती वाहसो दर्विदा ते वायव्याः ।     दिग्भ्यश् चक्रवाकः ॥ - तै.सं. 5.5.13.1

*अथाकूपारम् । अकूपारो वै कश्यपः कलिभिस् सह समुद्रम् अभ्यवैषत्। तस्मिन् प्रतिष्ठाम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समुद्रे प्रतिष्ठाम् अविन्दतेमाम् एव पृथिवीम्। ततो ह स्म वै तस्य कलयः पृष्ठ आसते। तद् एतत् प्रतिष्ठासाम। प्रतितिष्ठति य एवं वेद। समुद्रो वै छन्दोमाः। कश्यपो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्राकूपारं भवति समुद्रस्यैवातिपारणाय। यद् व् अकूपारः कश्यपो ऽपश्यत्, तस्माद् आकूपारम् इत्य् आख्यायते। - - - - - - जै.ब्रा. 3.273

 

*आकूपारं भवतिअकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छज्जेमानं महिमानं गच्छत्याकूपारेण तुष्टुवानः तां.ब्रा. 15.5.29

 

 

*आ तू न इन्द्र क्षुमन्तमित्याकूपारम् (मैत्रावरुण साम) अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास्त्वगेवं त्वगासीत् तामेतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसमकरोत् तद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते तां.ब्रा. 9.2.13

 

 

 

 

 

 

 

 

 

 

 

 

This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free