पुराण विषय अनुक्रमणिका(अ-अनन्त) Purana Subject Index

Achchhavaak अच्छावाक्

अच्छावाक्

टिप्पणी : काशकृत्स्न धातु व्याख्यानम् में अछ/अच्छ धातु को गतौ अर्थ में लिया गया है। डा. फतहसिंह गति को ज्ञानवाचक समझते हैं। काशकृत्स्न धातुव्याख्यानम् की श्री चन्नवीरकवि-कृत टीका में अच्छम् का अर्थ सत्यम् और अच्छति का अर्थ सत्यम् भवति किया गया है। अच्छ शब्द उसी धातु से बना है जिससे स्वच्छ, निर्मल। वेदों में कईं मन्त्रों में अच्छा शब्द आया है। काठक संहिता 26.9 के अनुसार अच्छावाक् नामक ऋत्विज का अनुष्टुप् छन्द होता है। पुराणों में भक्त भगवान के दर्शन करने पर प्रायः अनुष्टुप् छन्द में स्तुति करता है।

प्रथम प्रकाशन : 1994 ई.

 

संदर्भ

*वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ॥ - ऋ. ,००२.०२

*देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः । महामनूषत श्रुतम् ॥(दे. मरुद्गण) - ऋ. ,००६.०६

देवयन्तो मरुत्संज्ञकान् देवान् इच्छन्तः, अनूषत स्तुतवन्तः, अच्छ - प्राप्तुम्

*मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे । अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥- ऋ. ,०३१.१७

अच्छ आभिमुख्येन, याहि गच्छ, यक्षि- देहि

*अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् । अग्निं मित्रं न दर्शतम् ॥ - ऋ. ,०३८.१३

*प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥- ऋ. ,०४०.०३

*स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना । अच्छा गच्छत्यस्तृतः ॥- ऋ. ,०४१.०६

अस्तृतः - अहिंसितः

*श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे । देवाँ अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥- ऋ. ,०४४.०४

*यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे । अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥- ऋ. ,१०१.०८

*सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः । अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥- ऋ. ,१०५.१४

*आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे । प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिमग्नेः ॥- ऋ. ,१२२.०५

*नेषि णो यथा पुरानेनाः शूर मन्यसे । विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥- ऋ. ,१२९.०५

*एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः । हवामहे त्वा वयं प्रयस्वन्तः सुते सचा । पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥  - ऋ. ,१३०.०१

*तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा । इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥- ऋ. ,१३२.०५

*यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी । अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः - ऋ. ,१३९.०१

*उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः । स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥- ऋ. ,१४१.१२

*यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः । उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥ - ऋ. ,१५१.०७

*उप प्रागात्परमं यत्सधस्थमर्वाँ अच्छा पितरं मातरं च । अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥- ऋ. ,१६३.१३

*ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः । आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥- ऋ. ,१६५.०४

*अस्मे ऊ षु वृषणा मादयेथामुत्पणींर्हतमूर्म्या मदन्ता ।

श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥ - ऋ. १,१८४.०२

*प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति । अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥- ऋ. ,१८६.१०

*जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥- ऋ. ,०३६.०६

*ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ । ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥(दे. अश्विनौ) - ऋ. ,०३९.०१

(प्रवर्ग्ये अभिष्टवे पूर्वे पटले अस्य विनियोगः)। अच्छ आगच्छ सायण भाष्य

*वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् । हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥- ऋ. ,०३९.०५

*सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै । देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥- ऋ. ,००१.०१

*प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै । अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥- ऋ. ,००४.०३

*अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः । रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥- ऋ. ,०१५.०५

*अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥- ऋ. ,०२२.०३

अर्णं अम्भः, जिगासि प्राप्नोषि, ऊचिषे समवेतान्करोति, धियं बुद्ध्युपहितं देहमुष्णंत्युष्णीकुर्वंतीति धिष्ण्याः प्राणाभिमानिनो देवाः। - सायण भाष्य

*कृणोत धूमं वृषणं सखायो ऽस्रेधन्त इतन वाजमच्छ । अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून् ॥- ऋ. ,०२९.०९

अस्रेधन्तः अक्षीणा, इतन प्राप्नुत।

*विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः । अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥- ऋ. ,०३१.०६

*इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥- ऋ. ,०३३.०२

*अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म । वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥- ऋ. ,०३३.०३

*रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥- ऋ. ,०३३.०५

*तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ । पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥- ऋ. ,०३५.०१

*को अद्धा वेद क इह प्र वोचद्देवां अच्छा पथ्या का समेति । ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥- ऋ. ,०५४.०५

*या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् । अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥- ऋ. ,०५७.०३

*अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा । इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥- ऋ. ,०५७.०४

*अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् । ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥- ऋ. ,०६१.०५

*स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् । ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥- ऋ. ,००१.०२

*अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् । शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥- ऋ. ,००१.१९

*का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् । कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥- ऋ. ,००५.१३

*प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥- ऋ. ,०१४.०१

*बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः । अच्छा न हूत उदरम् ॥- ऋ. ,०१५.०७

*अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् । ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥- ऋ. ,०१६.०९

*स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् । यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥- ऋ. ,०२१.०४

*अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् । उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः ॥- ऋ. ,०२९.०४

*ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।

इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥-ऋ. ४,०३४.०१

अच्छ - अभिमुखं

*आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन । मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥- ऋ. ,०४४.०५

*प्र वामवोचमश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति । येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥- ऋ. ,०४५.०७

*अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् । यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥- ऋ. ,००१.०१

*अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति । यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥- ऋ. ,००१.०४

*वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥- ऋ. ,०२४.०२

*अच्छा वो अग्निमवसे देवं गासि स नो वसुः । रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥- ऋ. ,०२५.०१

*कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।

मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥ - ऋ. ५,०४१.१६

*एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर्युवन्यूंरुदश्याः । कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वां अयासः ॥- ऋ. ,०४२.१५

*अच्छा मही बृहती शन्तमा गीर्दूतो न गन्त्वश्विना हुवध्यै । मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् ॥- ऋ. ,०४३.०८

*एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः । आरे द्वेषांसि सनुतर्दधामाऽयाम प्राञ्चो यजमानमच्छ ॥- ऋ. ,०४५.०५

*आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे । रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद् गोषु गच्छन् ॥- ऋ. ,०४५.०९

*अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥- ऋ. ,०५२.१४

*नू मन्वान एषां देवाँ अच्छा न वक्षणा । दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥- ऋ. ,०५२.१५

*यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः । जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥- ऋ. ,०५५.१०

*ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः । सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अच्छा जिगातन ॥- ऋ. ,०५९.०६

*कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् । कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥- ऋ. ,०७४.०३

*आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥- ऋ.  ,०७६.०१

*अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद् वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥- ऋ. ,०८३.०१

*अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः । वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥- ऋ. ,००२.११

*प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।

वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥- ऋ. ,००६.०१

*अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।

वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥- ऋ. ,०१४.०६

*स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥- ऋ. ,०१६.१२

*अच्छा नो याह्या वहाभि प्रयांसि वीतये । आ देवान् त्सोमपीतये ॥- ऋ. ,०१६.४४

*तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः । तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥- ऋ. ,०२२.०५

*गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥- ऋ. ,०२८.०५

*सत्यमित्तन्न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।

अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥- ऋ. ,०३०.०४

*स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।

पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥- ऋ. ,०३२.०४

*इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।

भवा सुपारो अतिपारयो नो भवा सुनीतीरुत वामनीतिः ॥- ऋ. ,०४७.०७

*प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।

द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥- ऋ. ,०४९.०४

*इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।

प्रति न ईं सुरभीणि व्यन्तु ॥- ऋ. ,००१.१८

*उद् यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।

अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥- ऋ. ,००३.०३

*अग्ने याहि दूत्यं मा रिषण्यो देवाँ अच्छा ब्रह्मकृता गणेन ।

सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥- ऋ. ,००९.०५

*अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।

सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥- ऋ. ,०१०.०३

*आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।

याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥- ऋ. ,०२३.०४

*आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।

वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥- ऋ. ,०२४.०३

*अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।

उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥- ऋ. ,०३६.०९

*आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात ।

ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥- ऋ. ,०५७.०७

*उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।

आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥- ऋ. ,०७२.०३

*प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।

नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥- ऋ. ,०९२.०३

*स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।

शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥- ऋ. ,००२.२८

*एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।

अच्छा स्वध्वरं जनम् ॥- ऋ. ,००५.३३

*प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।

सासह्वांसं युधामित्रान् ॥- ऋ. ,०१६.१०

*स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।

अच्छा च नः सुम्नं नेषि ॥- ऋ. ,०१६.१२

*अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।

सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥- ऋ. ,०२१.०६

*युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।

अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥- ऋ. ,०२२.०४

*अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।

होता यो अस्ति विक्ष्वा यशस्तमः ॥- ऋ. ,०२३.१०

*एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।

नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥- ऋ. ,०३३.१३

*अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।

अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिमच्छ ॥- ऋ. ,०४८.०६

*य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः । इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥- ऋ. ,०५१.०३

अच्छ - अभिलक्ष्य

*अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥- ऋ. ,०६०.०२

अच्छ - अभिप्राप्तुं

*त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय । प्र णो नय वस्यो अच्छ ॥- ऋ. ,०७१.०६

वस्य वसीयं धनं, अच्छ - अभिप्राप्तुं

*अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् । अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥- ऋ. ,०७१.१०

अच्छ - अभिमुखं

*उत नो देव देवाँ अच्छा वोचो विदुष्टरः । श्रद्विश्वा वार्या कृधि ॥- ऋ. ,०७५.०२

अच्छा वोचो - अभिब्रूयाः

*इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे । अच्छावभृथमोजसा ॥- ऋ. ,०९३.२३

अच्छ - प्रति

*अग्निं वो वृधन्तमध्वराणां पुरूतमम् । अच्छा नप्त्रे सहस्वते ॥- ऋ. ,१०२.०७

अच्छ - अभिगच्छत

*प्र दैवोदासो अग्निर्देवां अच्छा न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥- ऋ. ,१०३.०२

अच्छ - प्रति

*मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः । कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥ - ऋ. ८,१०३.१३

अच्छोक्तिभिः - अभिष्टुतिभिः

*त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।

इन्दो त्वे न आशसः ॥- ऋ. ,००१.०५

*प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।

अच्छा वाजं सहस्रिणम् ॥- ऋ. ,०५७.०१

*अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।

अवावशन्त धीतयः ॥- ऋ. ,०६६.११

*प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः ।

बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥- ऋ. ,०६८.०१

*एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।

सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥- ऋ. ,०६९.०९

*अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।

अग्मन्नृतस्य योनिमा ॥- ऋ. ,०६६.१२

*एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।

सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥- ऋ. ,०६९.०९

*अच्छा हि सोमः कलशां असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।

अथा देवानामुभयस्य जन्मनो विद्वां अश्नोत्यमुत इतश्च यत् ॥- ऋ. ,०८१.०२

*अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।

सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥- ऋ. ,०९२.०२

*अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।

नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥- ऋ. ,०९५.०३

*स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।

देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥- ऋ. ,०९७.०६

*प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।

आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥- ऋ. ,०९७.०८

*इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।

श्रुष्टी जातास इन्दवः स्वर्विदः ॥- ऋ. ,१०६.०१

*अजीजनो अमृत मर्त्येष्वां ऋतस्य धर्मन्नमृतस्य चारुणः ।

सदासरो वाजमच्छा सनिष्यदत् ॥- ऋ. ,११०.०४

*शूषेभिर्वृधो जुषाणो अर्कैर्देवां अच्छा रघुपत्वा जिगाति ।

मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान्- ऋ. १०,००६.०४

*प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ।

महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥- ऋ. १०,०३०.०१

*प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।

सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥- ऋ. १०,०३४.०१

*अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।

परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥- ऋ. १०,०४३.०१

*यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।

प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥- ऋ. १०,०४५.०९

*वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः ।

यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥- ऋ. १०,०८८.१४

*नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः ।

गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥- ऋ. १०,१०८.१०

*यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् ।

तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥- ऋ. १०,११२.०४

*अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव ।

प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥- ऋ. १०,१४१.०१

*युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।

यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥- ऋ. १०,१४३.०५

*प्रातःसवने आज्यस्तोत्रम् तासां वै होत्राणामायतीनामाजयन्तीनामच्छावाकीयाऽहीयत तस्यामिन्द्राग्नी अध्यास्तामिन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ तस्मादैन्द्राग्नमच्छावाकः प्रातःसवने शंसतीन्द्राग्नी हि तस्यामध्यास्ताम्। - ऐ.ब्रा. 2.36

*अथास्य (प्रजापतेः) यत् स्वं छन्द आसीद् अनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि, सैनमब्रवीदनुष्टुप् त्वं न्वेव देवानां पापिष्ठोऽसि, यस्य तेऽहं स्वं छन्दोऽस्मि यां मोदन्तमभ्युदौहीरच्छावाकीयामभीति, - - - -ऐ.ब्रा. 3.13

*ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त सोऽब्रवीद् इन्द्रः कश्चाहं चेमानितोऽसुरान् नोत्स्यावहा इत्यहं चेत्यब्रवीद् विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसति ऐ.ब्रा. 3.50

सं वां कर्मणा समिषा (ऋ. 6.69) इत्यष्टर्चमैन्द्रावैष्णवं सूक्तम्

*मित्रावरुणाभ्यां हि देवा दक्षिणतः प्रातःसवनेऽसुररक्षांस्यपाघ्नते। - - - इन्द्रेण(ब्राह्मणाच्छंसी) हि देवा मध्यतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत। - - - --इन्द्राग्निभ्यां (अच्छावाकः) हि देवा उत्तरतः प्रातःसवनेऽसुररक्षांस्यपाघ्नत। - - - अग्निनैव पुरस्तात् प्रातःसवनेऽसुररक्षांस्यपघ्नते - ऐ.ब्रा. 6.4

*यत्सोम आ सुते नर (ऋ. 7.94.10) इत्यच्छावाकस्येन्द्राग्नी अजोहवुरितीन्द्राग्नी एवैतयाऽहरहर्निह्वयन्ते ऐ.ब्रा. 6.6

*आहं सरस्वतीवतोरित्यच्छावाकस्य, वाग्वै सरस्वती, वाग्वतोरिति हैतदाहेन्द्राग्न्योरवो वृणं इत्येतद्ध वा इन्द्राग्न्योः प्रियं धाम यद्वागिति, प्रियेणैवैनौ तद्धाम्ना समर्धयति। - ऐ.ब्रा. 6.7

*अच्छावाकस्य सवनद्वये परिधानीयाद्वयं तत एकाहिकाभिरेव मैत्रावरुणः परिदधाति, तेनास्माल्लोकान्न प्रच्यवते। अहीनाभिरच्छावाकः स्वर्गस्य लोकस्याऽऽप्त्यै। उभयीभिर्ब्राह्मणाच्छंसी तेनो स उभौ व्यन्वारभमाण एति - - - ऐ.ब्रा. 6.8

*प्रस्थितयाज्या विषयं ऐन्द्रत्वं प्रातर्यावभिरा गतं देवेभिर्जेन्या वसू इन्द्राग्नी सोमपीतय इति स्वयं समृद्धाऽच्छावाकस्य। एवमु हैता ऐन्द्र्यो भवन्ति। - ऐ.ब्रा. 6.10

*माध्यन्दिने अच्छावाकस्य याज्या इन्द्राय सोमाः प्रदिवो विदाना (ऋ. 3.36.2) इति अच्छावाको यजति। - ऐ.ब्रा. 6.11

*

*तृतीयसवने अच्छावाकस्य याज्यायाम् आर्भवत्वं इन्द्राविष्णू पिबतं मध्वो अस्येत्यच्छावाको यजत्या वामन्धांसि मदिराण्यग्मन्निति बहूनि वाह तदृभूणां रूपम्। - ऐ.ब्रा. 6.12

*अथाहास्त्यच्छावाकस्य प्रवरा3ः नाँ3 इति। अस्तीति ब्रूयाद्, यदेवैनमध्वर्युराहाच्छावाक वदस्व यत्ते वाद्यमित्येषोऽस्य प्रवरः। - ऐ.ब्रा. 6.14

प्रवरः प्रकर्षेण वरणम्

*अथैतत् त्रैष्टुभमच्छावाकोऽन्ततः शंसति, सं वां कर्मणेति (ऋ. 6.69) यदेव पनाय्यं कर्म तदेतदभिवदति। समिषेत्यन्नं वा इषोऽन्नाद्यस्यावरुद्ध्यै। अरिष्टैर्नः पथिभिः पारयन्तेति स्वस्तिताया एवैतदहरहः शंसति। - ऐ.ब्रा. 6.15

पनाय्यं पण व्यवहारे स्तुतौ च

*इयमिन्द्रं वरुणमष्टमे गीरिति(ऋ.7.84.5) मैत्रावरुणस्य, बृहस्पतिर्नः परिपातु पश्चादिति(ऋ. 10.42.11) ब्राह्मणाच्छंसिनः, उभा जिग्यथुरिति(ऋ. 6.69.8) अच्छावाकस्य ऐ.ब्रा. 6.15

*ऐरयेथामैरयेथामित्यच्छावाक उक्थ्येऽभ्यस्यति स हि तत्रान्त्यो भवति। अग्निष्टोमे होताऽतिरात्रे च, स हि तत्रान्त्यो भवति। - ऐ.ब्रा. 6.15

*अथाह यन्नाराशंसं वै तृतीयसवनमथ कस्मादच्छावाकोऽन्ततः  शिल्पेष्वनाराशंसीः शंसतीति। विकृतिर्वै नाराशंसं, किमिव च वै किमिव च रेतो विक्रियते, तत्तदा विकृतं प्रज्ञातं भवत्यथैतन्मृद्विवच्छन्दः शिथिरं यन्नाराशंसमथैषोऽन्त्यो यदच्छावाकस्तद्दृढतायै दृळ्हे प्रतिष्ठास्याम इति। - ऐ.ब्रा. 6.16

*त्रीनेव संपातानच्छावाको विपर्यासमेकैकमहरहः शंसतीमामु षु प्रभृतिं सातये धा इति(ऋ. 3.36 प्रथमेऽहनीच्छन्ति त्वा सोम्यासः सखाय इति (ऋ.3.30) द्वितीये, शासद्वह्निर्दुहितुर्नप्त्यङ्गादिति (ऋ. 3.31) तृतीये। - ऐ.ब्रा. 6.19

*अथ यान्यहानि महास्तोमानि स्युः, को अद्य नर्यो देवकाम इति मैत्रावरुण आवपेत, वने न वायो न्यधायि चाकन्निति ब्राह्मणाच्छंस्या याह्यर्वाङुप बन्धुरेष्टा इत्यच्छावाकः। - ऐ.ब्रा. 6.19

*सद्यो ह जातो वृषभः कनीन इति (ऋ. 3.48) मैत्रावरुणः पुरस्तात् सूक्तानामहरहः शंसति। - - - -उदु ब्रह्माण्यैरत श्रवस्येति ब्राह्मणाच्छंसी ब्रह्मण्वत् समृद्धं सूक्तमहरहः शंसति। - - - -अभितष्टेव दीधया मनीषामिति(ऋ. 3.38) अच्छावाकोऽहरहः शंसत्यभिवत् तत्यै रूपम्। अभि प्रियाणी मर्मृशत् पराणीति यान्येव पराण्यहानि, तानि प्रियाणि, तान्येव तदभिमर्मृशतो यन्त्यभ्यारभमाणाः, परो वा अस्माल्लोकात् स्वर्गो लोकस्तमेव तदभिवदति। कवींरिच्छामि संदृशे सुमेधा इति। ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यति वदति। - ऐ.ब्रा. 6.20

*अप प्राच इन्द्र विश्वाँ अमित्रानिति(ऋ.10.131.1) मैत्रावरुणः पुरस्तात् सूक्तानामहरहः शंसति। - - -- ब्रह्मणा ते ब्रह्मयुजा युनज्मीति (ऋ. 3.35.4) ब्राह्मणाच्छंस्यहरहः शंसति - - -- -। उरुं नो लोकमनु नेषि विद्वानिति (ऋ. 6.47.8) अच्छावाकोऽहरहः शंसत्यनु नेषीत्येव ह्यहीनोऽहीनस्य रूपम्। नेषीति सत्रायणरूपम्। - ऐ.ब्रा. 6.22

*- - -तृतीयसवने वज्रेण वालखिल्याभिर्वाचःकूटेनैकपदया वलं विरुज्य गा उदाजन्। - - - -- यः ककुभो निधारय इति (ऋ. 8.41.4-6) मैत्रावरुणः पूर्वीष्ट इन्द्रोपमातय इति (ऋ. 8.40.9-11) ब्राह्मणाच्छंसी, ता हि मध्यं भराणामिति (ऋ. 8.40.3-5) अच्छावाकः। - ऐ.ब्रा. 6.24

*तं(यजमानं) होता रेतोभूतं सिक्त्वा मैत्रावरुणाय संप्रयच्छत्येतस्य त्वं प्राणान् कल्पयेति। - --- - -तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छत्येतं त्वं प्रजनयेति। -- -- -तं ब्राह्मणाच्छंसी जनयित्वाऽच्छावाकाय संप्रयच्छत्येतस्य त्वं प्रतिष्ठां कल्पयेति। - ऐ.ब्रा. 6.29

*अच्छावाकस्य शस्त्रं एवयामरुतं(प्र वो महे इति) शंसति, प्रतिष्ठा वा एवयामरुत्प्रतिष्ठामेवास्य तत्कल्पयति। - ऐ.ब्रा. 6.30

*पशोर्विभक्तिः - - - -दक्षिण ऊरुरच्छावाकस्य, सव्य आग्नीध्रस्य, - -- - ऐ.ब्रा. 7.1

*यशो अच्छावाकः तां.ब्रा. 25.18.4

*सोमो ह खलु वै राजा कालेयम्। सदेवो हास्य यज्ञो भवति। यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्य् एवं ह वाव तम् इन्द्रस् सोमम् आगच्छति यस्मिन् कालेयेन स्तुवन्ति। तस्माद् उ हैतस्मात् साम्नो नैव कदा चनेयात् सेन्द्रो मे सदेवो यज्ञो ऽसद् इति। - - -- - तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एव तत् प्रतितिष्ठति। जै.ब्रा. 1.155

सोमयाग में माध्यन्दिन सवन के पश्चात् चार पृष्ठ स्तोत्र होते हैं जिनका गान सामवेदी ऋत्विज करते हैं। प्रथम पृष्ठ स्तोत्र का नाम रथन्तर, द्वितीय का बृहत्, तीसरे का नोधस व चौथे का कालेयम् साम है। कालेयम् साम का निधन ऐळं होता है। जैमिनीय ब्राह्मण का कथन है कि यह ऋग्वेद के चार ऋत्विजों होता, मैत्रावरुण, ब्राह्मणाच्छंसी व अच्छावाक् में से अच्छावाक् का साम है। कालेय साम के आरंभिक शब्द हैं तरोभिर्वो विदद्वसुम् इन्द्रं सबाध ऊतये। बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्।

*नार्मेधेनातिरात्रे ऽच्छावाकाय स्तुवन्ति। इळया रात्रिम् अभिसंतन्वन्ति। तद् आहुर् यन्ति वा एते ऽनुष्टुभो य उष्णिक्ष्व् अच्छावाकसाम कुर्वन्तीति। - -- -- -जै.ब्रा. 1.188

*अषाढो ह सावयसो ऽतिरात्रेणेजे। तद् उ हातिधन्वश् शौनकः प्रसुप्त आस। स होद्वंशीयम् अतिरात्रे ऽच्छावाकसाम चक्रे। तं होवाच मैवं कुरुत पलिप्तेळ स्वरः परस्ताद् अप्रतिष्ठितः पारिचर्यस्य रूपम् इति। -- -जै.ब्रा. 1.190

*नार्मेधम् एव कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुर् वा पतेतान् रात्रेर् निरवाघ्नन्। तस्मान् नार्मेधम् एव कार्यम् इति। - - -- --तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति। - जै.ब्रा. 1.191

*इन्द्राय मद्वने सुतम् इति मद्वतीर् भवन्ति। - - - -तासु श्रौतकक्षम्। - - - - -- तदेळम् अच्छावाकसाम भवति। पशवो वा इळा। - जै.ब्रा. 1.217

इदं वसो सुतम् अन्धः इति गारम्। - - - - -तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। - जै.ब्रा. 1.223

*इन्द्र सुतेषु सोमेषु इत्य् उष्णिहो भवन्ति। - - - -तासु कौत्सम्। - - - -तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। - जै.ब्रा. 1.228

*स्वारं मैत्रावरुणसाम। प्राणस् स्वरः प्राणो मैत्रावरुणसाम। द्वयक्षरनिधनं ब्रह्मसाम। द्वन्द्वं प्रतिष्ठा प्रतिष्ठा ब्रह्मसाम। ऐळम् अच्छावाकसाम। पशव इळा पशवो ऽच्छावाकसाम। - - -- -ऐळेन वा निधनवता वोष्णिहम् आरभेत। वीर्यं निधनं वीर्यं उष्णिक्। पशव इळा पशव उष्णिक्। जै.ब्रा. 1.309

*प्रातःसवने आज्यस्तोत्राणि : जगतीं होतुर् आज्ये। जागतो हि होता। सैषा भवति अग्न आ याहि वीतये इति। गायत्रीं मैत्रावरुणस्य( आ नो मित्रावरुणा)। - -- त्रिष्टुभं ब्राह्मणाच्छंसिनः (आ याहि सुषुमा हि ते)। अनुष्टुभम् अच्छावाकस्य। आनुष्टुभो हि अच्छावाकः(इन्द्राग्नी आ गतं सुतं इति) जै.ब्रा. 1.319

*यदि द्वयोः पर्याययोर् अस्तुतयोर् अभिव्युच्छेद् धोत्रे च मैत्रावरुणाय च पूर्वे स्तुयुर् ब्रह्मणे चाच्छावाकाय चोत्तरे। - जै.ब्रा. 1.348

*स एष उक्थ्यो यज्ञः। - - -द्वया उ ह वै पशवः। राथन्तरा अन्ये, बार्हता अन्ये। - - -- -तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वं पृष्ठरूपम् पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। - जै.ब्रा. 2.84

*अथो आहुर् एकम् एवैतत् स्तोत्रं सत् तच् चतुर्धा विहृत्य स्तुयुष्, षड्भिर् एव होत्रे स्तुयुष्, षड्भिर् मैत्रावरुणाय, षड्भिर ब्राह्मणाच्छंसिने, षड्भिर् अच्छावाकाय। - जै.ब्रा. 2.111

*अथैष विवधः। - - -- स उक्थ्यो भवति पशवो वा उक्थानि पशूनाम् एवावरुद्ध्यै। तस्योद्वंशीयम् अच्छावाकसाम भवति सर्वपृष्ठरूपं पृष्ठानि वै पशवो - ऽभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै जै.ब्रा. 2.114

*तद् उ वा आहुर् अच्छावाकस्येद् वाव स्तोत्रे प्रातस्सवन (इन्द्रः सोमस्य भक्षणार्थं) आजगाम। अन्तरितो वै तथा यज्ञाद् अभविष्यद् यद् अच्छावाकस्य स्तोत्रे प्रातस्सवने नागमिष्यद् इति। तस्माद् एतस्य यज्ञस्याच्छावाकस्य स्तोत्रे भक्षयन्ति। तस्माद् व् अच्छावाकायोभाव् अध्वर्यू प्रत्यागृणीतः, सर्वे चमसाध्वर्यवः। - जै.ब्रा. 2.152

*अथैष गायत्रः। तस्य त्रिवृति प्रातस्सवने पञ्चदशम् अच्छावाकस्याज्यं, सप्तदशं माध्यंदिनं सवनम्, एकविंशं तृतीयसवनम्। - - - -तद् यत् त्रिवृति प्रातस्सवने पञ्चदशम् अच्छावाकस्याज्यं भवति ब्रह्म वै त्रिवृत्। क्षत्रं पञ्चदशो ब्रह्मैव तत् क्षत्रस्य पुरस्ताद् दधाति। - जै.ब्रा. 2.171

*अग्निष्टोमे दक्षिणा धेनुर् मैत्रावरुणाय, ऋषभो ब्राह्मणाच्छंसिने, - - स्थूर् यवाचितम् अच्छावाकाय --- - जै.ब्रा. 2.202

*अथ यत् स्थूर् यवाचितम् अच्छावाकाय भवति, धीतेव ह वा एषा होत्रायातयाम्नी यद् अच्छावाकीया। ताम् एतैर् एव यवैर् आप्याययन्ति। तत् स्थूरि भवति क्षेमस्य रूपम्। - जै.ब्रा. 2.203

*प्रातःसवने आज्यस्तोत्रं तद् यत् त्रिवृद् भवति ब्रह्मणैव तत् समृद्ध्यन्ते। पञ्चदशं मैत्रावरुणस्य। - -- - सप्तदशं ब्राह्मणाच्छंसिनः। - - - -षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। - जै.ब्रा. 2.223

*सप्तदशं होतुः पृष्ठं भवति। - - - -एकविंशं मैत्रावरुणस्य। - - - --त्रिणवं ब्राह्मणाच्छंसिनः। - - - - -षोडशम् अच्छावाकस्य। इन्द्रियं वै वीर्यं षोडशी। - - - षोडशम् उ एवादोऽच्छावाकस्य। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। - जै.ब्रा. 2.224

*पृष्ठ्यषडहे प्रायणीयम् अहः -- ईर्म इव वा एषा होत्राणां यदच्छावाकः, यद् अच्छावाकम् अनुसंतिष्ठेर्म इव तुष्टुवाना स्युर् इति। तस्य त्रैककुभं ब्रह्मसाम भवत्य्, उद्वंशीयम् अच्छावाकसाम। इन्द्रियं वै वीर्यं त्रैककुभं, सर्वं पृष्ठरूपम् उद्वंशीयम्। जै.ब्रा. 2.378

*द्वादशाहे द्वितीयमहः त्वामिदा ह्यो नर इति - -- -तासु माधुच्छन्दसम्। - - - -तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। - जै.ब्रा. 3.27

*एवा ह्य असि वीरयुर् एवा शूर उत स्थिरः।  - - - इन्द्रं विश्वा अवीवृधन्न् इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्। तास्व् आष्टादंष्ट्रम्  उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.34

*द्वादशाहे तृतीयमहः -- तरणिरित् सिषासतीति प्रज्ञाता स्तोत्रिया भवन्ति। तासु रौरवं त्रिरूपं त्रिपरिष्टोभं तृतीयस्याह्नो रूपम्। - - -तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.50

*श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति।  - - - -- यद् उ तिरश्चिर् आंगिरसो ऽपश्यत् तस्मात् तैरश्चम् इत्य् आख्यायते। - - - तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.56

*द्वादशाहे चतुर्थमहः यो राजा चर्षणीनाम् इति राज्यम् इव ह्य् एतर्ह्य् अगच्छन्। - - - - -इन्द्र तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि। -- - - -इति सूर्यवतीर् भवन्ति। - - - - -अथो ह स्मैतेनैव साम्ना भरद्वाजः पृश्न्य् अन्नाद्यम् अवरुन्द्धे। - - - -तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.75

*द्वादशाहे चतुर्थमहः, उक्थम् इममिन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम् इति ज्यैष्ठ्म् इव ह्य् एतर्ह्य् अगच्छन्। - - - तासु वासिष्ठम्। - - - -वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। - - -तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। - - अथ षोडशी। - - - -उक्थानां वा एष एको यत् षोडशी। तद् यद् अत्र षोडशी क्रियते स्वेनैवैनं तद् आयतनेन समृद्ध्यन्ति। - जै.ब्रा. 3.83

*द्वादशाहे पंचमम् अहः -- अथ महानाम्नयः। महानाम्नीर् वा अनु प्रजाः प्रजायन्ते। -- - - गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। - - - (इन्द्रो मदायेति) बार्हद्गिररायोवाजीये पांक्ते पांक्ते अहनि क्रियेते पांक्ता वै पशवः। - - --तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.103

*असावि सोम इन्द्र त इत्य् असावीति सिमानां रूपम्। तासु महावैश्वामित्रम्। एतेन वै विश्वामित्रो महिमानं भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। - - - तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.134

*द्वादशाहे षष्ठम् अहः, पृष्ठानि उभे यदिन्द्र रोदसी इति षट्पदाष् षष्ठे ऽहन् भवन्ति। - - - -तासु श्येनस् संपारणो ऽनपहानाय क्रियेते। - - - - तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.158

अरण्येगेय श्येनस् साम

*सप्तम् अहः, पृष्ठानि अथैता भवन्ति नकिष् टं कर्मणा नशद् इति। - - - -तासु वैखानसम्। वैखानसा वा एतानि सामान्य् अपश्यन्न् अभ्यारम्भं यज्ञस्य प्रत्यपसारम्। - - - -- तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.190

*यद् इन्द्र चित्र म इह नास्ति त्वादातम् अद्रिवः। - - - - -तासु वसिष्ठस्य वीङ्कम् अतिक्रान्तिः। अति वा एतर्ह्य् अनुष्टुब् अनुष्टुभं क्रामति। - - --तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.204

*द्वादशाहे अष्टमम् अहः - - उभयं शृणवच्च् च न इत्य् उभे एवैतेन रूपे समारभते यच् च पृष्ठ्यस्य षडहस्य यद् उ च छन्दोमानाम्।  - - - -तासु वैयश्वम्। - - - तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.221

*स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत। पुरां भिन्दुर् युवा कविर् अमितौजा अजायत। - - - - -तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.239

*द्वादशाहे नवमम् अहः यत इन्द्र भयामहे ततो नो अभयं कृधि। मघवन् शग्धि तव तन् न ऊतये वि द्विषो वि मृधो जहि॥ इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु समन्तम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। - जै.ब्रा. 3.264

*द्वादशाहः गायत्री मैत्रावरुणा, जगती होता, - - - -त्रिष्टुप् ब्राह्मणाच्छंस्य्, - - -अनुष्टुब् अच्छावाको जै.ब्रा. 3.369

*द्वादशाहः विश्वे देवा अच्छावाको जै.ब्रा. 3.374

*कद्रू सुपर्णी आख्यानम् -- अच्छावाकस्य हैनं (सोमं) गोपनायां जहार। सोऽच्छावाकोऽहीयत। तमिन्द्राग्नी अनुसमतनुताम् प्रजानां प्रजात्यै। तस्मादैन्द्राग्नो ऽच्छावाकः मा.श. 3.6.2.13

*उक्थग्रहः -- तस्यासावेव ध्रुव आयुः । आत्मैवास्यैतेन संहितः पर्वाणि संततानि तद्वा अगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवतिमा.श. 4.2.3.3

*एवमेव माध्यन्दिने सवने । अगृहीत एवैतस्मादच्छावाकायोत्तमो ग्रहो भवत्यथ

तृतीयं वसतीवरीणामवनयति तत्पर्व समैति प्रथममहोत्तरस्य सवनस्य

करोत्यु मा.श. 4.2.3.5

*उक्थग्रहः -- इन्द्राग्निभ्यां त्वा । देवाव्यं यज्ञस्यायुषे गृह्णामीत्येवाच्छावाकायैन्द्राग्नीषु हि

तस्मै स्तुवते। मा.श. 4.2.3.14

*राजसूये अभिषेकान्ते दक्षिणा वशां मैत्रावरुणाय। ऋषभं ब्राह्मणाच्छंसिने। न्यतरतोयुक्तं यवाचितमच्छावाकाय मा.श.ब्रा. 5.4.5.22

 

*भक्षयित्वा (सोमशेषम्) समुपहूताः स्म इत्युक्त्वोत्तिष्ठति । पुरोडाशबृगलमादाय तद्यत्रैतदुपसन्नो ऽच्छावाकोऽन्वाह तदस्मै पुरोडाशबृगलम् पाणावादधदाहाच्छावाक वदस्व यत्ते वाद्यमित्यहीयत वा अच्छावाकःतमिन्द्राग्नी अनुसमतनुताम् । प्रजानां प्रजात्यै तस्मादैन्द्राग्नोऽच्छावाकः स  एतेन च हविषा यदस्मा एतत्पुरोडाशबृगलं पाणावादधात्येतेन चार्षेयेण यदेतदन्वाह तेनानुसमश्नुते (अध्वर्युः) वै सन्नेऽच्छावाके । ऋतुग्रहैश्चरति तद्यत्सन्नेऽच्छावाक ऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नो ह्यच्छावाको द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं स एतस्मान्मिथुनात्प्रजननादृतून्त्संवत्सरं प्रजनयति

  मा.श. 4.3.1.1-3

*पश्चाजमिव व एतच्छन्दो यदनुष्टुप् पश्चाजेवैषा होत्रा यदच्छावाक्या, तस्मादच्छावाकमुपैव ह्वयन्ते न वृणते। - काठ.सं. 26.9, कपि.क.सं. 41.7

*ऐन्द्रावैष्णवमच्छावाकस्य काठ.सं. 34.16

*भरद्वाजादच्छावाकः ( न प्रच्यवते) गो.ब्रा. 2.3.23

*ऐन्द्रावैष्णवमच्छावाकस्य उक्थं भवति गो.ब्रा. 2.4.14, 2.5.10

*वीर्य्यवान्वा एष बह्वृचो यदच्छावाकाः गो.ब्रा. 2.5.15

*नाछावाकं वृणीते, पश्चाजेव वा एषा, होत्राः स्वर्ग्या यदछावाक्या मै.सं. 3.9.8

*स्थूरि यवाचितमच्छावाकस्य, स्थूरिरिव ह्येषा होत्रा स्वर्ग्या यदच्छावाक्या मै.सं. 4.4.8

* एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः ।- - -  -- - - शाक्वरम् मैत्रावरुणस्य  वैरूपम् ब्राह्मणाच्छंसिनः। रैवतम् अच्छावाकस्य। त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति। कौ.ब्रा. 25.11

*दशपेयः रुक्मं होत्रे - -- वशां मैत्रावरुणायर्षभं ब्राह्मणाच्छंसिने वाससी नेष्टापोतृभ्यां स्थूरि यवाचितमच्छावाकाय (ददाति) तै.सं. 1.8.18.1

यवाचितम् यवपूर्णशकटम् सायण भाष्य

*स्थूरि यवाचितमच्छावाकाय अन्तत एव वरुणमवयजते तै.ब्रा. 1.8.2.4

दाशरात्रिके तृतीयेऽहनि आज्य स्तोत्राणि अग्निनाग्निः समिध्यते इत्याग्नेयमाज्यं भवति। - - - -मित्रं हुवे पूतदक्षमिति राथन्तरम्मैत्रावरुणं। - - - -इन्द्रेण सं हि दृक्षुस इत्यैन्द्रं। - - - - ता हुवे ययोरिदमिति राथन्तरमैन्द्राग्नं तां.ब्रा. 12.2.8

दाशरात्रिके तृतीयेऽहनि पृष्ठस्य स्तोत्राणि यद्द्याव इन्द्र ते शतमिति शतवत्यो भवन्ति।(होतुः पृष्ठम्)। - - -वयङ्घ त्वा सुतावन्त इति सतो बृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय। (ब्रह्मणः पृष्ठम्)। तरणिरित्सिषासति वाजं पुरन्ध्या युजाव इन्द्रं पुरुहूतन्न मे गिरेत्यावदक्षरमुद्धतमिव वै तृतीयमहः (अच्छावाकस्य पृष्ठम्)। - - - - -रौरवमच्छावाकसाम भवति। - तां.ब्रा. 12.4.4

दाशरात्रिके चतुर्थेऽहनि पृष्ठस्तोत्राणि भरद्वाजस्य पृश्न्यछावाकसाम भवति(यो राजा चर्षणीनाम् इति)। अन्नं वै देवाः पृश्नीति वदन्त्यन्नाद्यस्यावरुद्ध्यै। - तां.ब्रा. 12.10.23

कया नश्चित्र आभुवदिति कवत्यः - - - -माचिदन्यद्विशंसतेत्युत्थानम् - - - - -उदु त्ये मधुमत्तमा इत्युदवत्य उदयनीये अहनि - - - -तरोभिर्व्वो विदद्वसुमिति स्तोमो तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते - - -। - तां.ब्रा. 15.10.1

तीव्रसोमाख्यं सप्तदशस्तोमकमुक्थसंस्थमेकाहम् अभ्यभिसोमानुन्नयन्ति तीव्र एनन्धिनवदित्युभावध्वर्य्यू सर्व्वे चमसाध्वर्य्यवो अछावाकाय प्रतिगृणन्ति तीव्रयन्त्येवैनं। तदभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्ति तीव्रयन्त्येवैनं तत्तानच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्येवैनं। - तां.ब्रा. 18.5.15

त्रैशोकमुत्तरस्याह्नो ब्रह्मसाम भवति वैखानसमछावाकसाम यच्छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः तां.ब्रा. 18.11.10

अभिजिदतिरात्रस्य क्रतोः स्तोमक्लृप्तिः त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशम्मैत्रावरुणस्य पञ्चदशं ब्राह्मणाछंसिनः सप्तदशमछावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुःपृष्ठमेकविंशम्मैत्रावरुणस्य त्रिणवं ब्राह्मणाछंसिन एकविंशमछावाकस्य तां.ब्रा. 20.8.1

विश्वजिदतिरात्रस्य क्रतोः स्तोमक्लृप्तिः त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशम्मैत्रावरुणस्यैकविंशं ब्राह्णाछंसिनः पञ्चदशमछावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवम्मैत्रावरुणस्य सप्तदशं ब्राह्मणाछंसिन एकविंशमछावाकस्य तां.ब्रा. 20.9.1

चतुर्वीराख्यं वीरोत्पत्तिसाधनं चतूरात्रम् कालेयं प्रथमस्याह्णोच्छावाकसाम माधुच्छन्दसं द्वितीयस्य रौरवं तृतीयस्य समन्तं चतुर्थस्य तां.ब्रा. 21.9.15

जमदग्नेश्चतूरात्रम्, तत्र प्रथमस्याह्नः क्लृप्तिः अथोत्तरस्याह्णश्चतुर्विंशं बहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि सप्तदशमछावाकस्य - - - -। तृतीयस्याह्न एकविंशं बहिष्पवमानं त्रीणि चाज्यानि पञ्चदशमच्छावाकस्य  - - तां.ब्रा. 21.10.2

*प्रतिष्ठासाधनं सर्पाणां सत्रं जर्व्वरो गृहपतिः - - -दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणस्तक्षको वै शालेयो ब्राह्मणाच्छंसी - - -अरुण आटोछावाकः तां.ब्रा. 25.15.3

*विश्वसृजामयनं तपो गृहपतिः - - - सत्यं होतर्त्तम्मैत्रावरुण उजो ब्राह्मणाच्छंसी - - यशोछावाको तां.ब्रा. 25.18.4

*

*

*